[Advaita-l] Taittiriya Brahmana question

V Subrahmanian v.subrahmanian at gmail.com
Mon Jul 4 05:37:42 CDT 2011


2011/7/2 Anand Hudli <anandhudli at hotmail.com>

> द्वैतिनां मतेऽप्यध्यस्तालीकयोः पार्थक्यं (भेदः) अभ्युपगम्यते,
> "त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता सत्तोच्यते *अध्यस्ततुच्छे तु तं प्रति
> प्रतियोगिनी*" इति व्यासरायवचनेऽध्यस्ततुच्छे पृथगेवोक्तत्वात्। अध्यस्तं
> शुक्तिरजतादिभ्रमे प्रतीयमानवस्तु। तुच्छम् अत्यन्तासच्छशशृङ्गाद्यलीकवस्तु।
> यद्यपि तेषां मते शुक्तिरजताद्यध्यस्तवस्त्वत्यन्तासदित्युक्तं, तथापि
> कस्मिन्श्चिदधिष्ठाने कस्मिन्श्चित्कालावधौ सत्त्वेन प्रतीयमानत्वमध्यस्तत्वं,
> कस्मिन्श्चिदप्यधिष्ठाने कदाचिदपि सत्त्वेन प्रतीत्यनर्हत्वमलीकत्वम् इति तैः
> स्वीकरणीयमेवेत्यध्यस्तवस्तुनोऽनिर्वचनीयत्वोपपत्तिः।
>
> आनन्दः
>

नमो नमः
भवदुक्तं सर्वं अति समीचीनमस्ति । पूर्वं मया ’गुम्मा’ विषयकचर्चायां तस्य
पूर्वं प्रतीयमानत्व(अर्थक्रियाकारित्वेन
-अनुभूयमानत्व)पश्चाद्बाध्यमानत्वहेतोः *अध्यस्तत्वं* प्रतिपादितं, किन्तु
मध्वमतीयानां वादस्तु ’उक्तोदाहरणं अत्यन्तासद्वस्तुगगनकुसुमतुल्यमेव नान्यथा’
इत्यासीत् । भवदुक्तरीत्या तेषामपि मते अनयोर्भेदः अभ्युपगत एव इति ज्ञात्वा
आश्चर्यचकितोऽहम् ।

ttp://www.advaita-vedanta.org/archives/advaita-l/2010-April/024366.html<http://www.advaita-vedanta.org/archives/advaita-l/2010-April/024366.html>
>

//The mAdhvas have criticized the advaitins' use of the anirvachanIya category
that is said to be different from sat and asat. However, in
formulating the theory of abhinava
anyathA khyAti, the mAdhvas themselves have divided the category of
asat or nonexistence into
two, namely the adhyasta asat consisting of superimposed objects and
the tuchchha asat
consisting of purely fictitious entities. Further, the adhyasta asat
category is similar, at
least in some respects, to the advaitins' anirvachanIya category.//

भागवते(11.23.50) -

देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः |

एषोऽहमन्योऽयमिति *भ्रमेण* दुरन्तपारे तमसि भ्रमन्ति ||

//Foolish men, coming to look upon the body, which is but a phantasm of the
mind, as ‘I’ and ‘mine’ and thinking erroneously, ‘This am I but this other
man is different’, wander in a limitless wilderness of ignorance.//

(माम्प्रति) कैश्चनमध्वपण्डितोक्तरीत्या उपर्युक्तश्लोके ’एषोऽहम्’ इत्यत्र ’एष
देहः अहं (आत्मा)’ इति बुद्धिः भ्रमः इत्यर्थः। एतेन तैरपि देहे आत्मबुद्धिः
भ्रमत्वेन स्वीकृता दृश्यते । तथा च देहस्य अविद्याकल्पितत्वं तैरपि
अङ्गीकर्तव्यम् । विद्यमानदेहे अहमभिमानः वा अविद्यामानदेहे इत्यस्य प्रश्नस्य
आद्यपक्षस्य अयुक्तत्वात् द्वितीयपक्ष एव शिष्यते । यतः ईश्वरो वा प्रकृतिर्वा
देहमेकं अकस्मात् सृष्ट्वा ’अस्मिन् देहे अयं जीवः अभिमानं प्राप्यताम्’ इति
नैव इच्छति । ’प्रप्रथमदेहः कथं आगतः?’ इत्यस्य प्रश्नस्य केनाप्युत्तरं
दातुमशक्यत्वात् अनादित्वेन अविद्याकल्पितत्वमेव देहेऽहंबुद्धेः युक्तम्
सेत्स्यति ।   भ्रमस्तु तुच्छातः भिन्नत्वेन तैरपि स्वीकृतत्वात् देहे
आत्मबुद्धिः अद्वैतिनामिव आविद्यकतया एव अभ्युपगन्तव्यम् ।


 http://www.advaita-vedanta.org/archives/advaita-l/2010-April/024383.html
>

//The word avabhAsa in the definition of adhyAsa is explained thus in the
BhAmatI: प्रत्ययान्तरबाधश्चास्य अवसादोऽवमानो वा, the word appearance means
it is terminated or discredited by another sublating cognition. Nor is not
possible to say that the superimposed object is wholly nonexistent (asat).
न चेदमत्यन्तमसत् निरस्तसमस्तस्वरूपमलीकमेवास्तु इति सांप्रतम्,
तस्यानुभवगोचरत्वानुपपत्तेः - भामती. It is not appropriate to hold that the
(illusory object) is entirely nonexistent or false, devoid of any essence,
because (such an object) cannot be within the range of experience. It is not
possible to have an experience of something that is totally nonexistent or
false.//

दृष्टान्तमादाय यद्भवदुक्तं तदेव दार्ष्टान्तिके योजयित्वा
उक्तोद्धवगीताश्लोकमेकं स्मरामि-

*

अविद्यमानोऽप्यवभासते यो, वैकारिको राजससर्ग एषः ।

ब्रह्म स्वयंज्योतिरतो विभाति, ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥२२॥


सुब्रह्मण्यः


A note: I have not given the ITRANS version of the above.  I think

if one downloads 'baraha UNICODE' from google and installs it in the

system, the above can be read easily without the letters appearing as

unreadable characters. http://www.giveawayoftheday.com/baraha+ime/
Knowledgeable

members could come up with a suitable solution to enable the reading

of sanskrit (devanagari) characters with ease in their systems.




*


More information about the Advaita-l mailing list