[Advaita-l] Chakravarti Rajagopalachari and Vivekananda

Venkatesh Murthy vmurthy36 at gmail.com
Wed Jul 27 11:43:35 CDT 2011


नमस्ते

’किं भवन्तः जानन्ति श्रीकृष्णस्य वर्णः नीलः कथम्?’ इति विद्यार्थिनः
परीक्षितुं सन्यासी अपृच्छत् । सर्वे विद्यार्थिनः एतं प्रश्नं श्रुत्वा
स्तब्धा: अभवन् । किंतु एकः विद्यार्थी उत्थाय उक्तवान्- ’यतिवर्य,
श्रीकृष्णस्य नीलवर्णः अनन्तत्वं सूचयति’ इति । सन्यासी अपृच्छत्- कथं
एवं वदितुं शक्नोषि ? विद्यार्थी अत्यन्तं शोभनया शैल्या स्वकथनं
व्याख्यातवान्- यथा नीलः आकाशः नीलः च समुद्रः अनन्तः तथा श्रीकृष्णस्य
महिमापि अनन्तः अस्ति । अतः तस्य वर्णोऽपि नीलः’ इति । विद्वान् सन्यासी
उपस्थिताः सर्वे जनाः च एतत उत्तरं श्रुत्वा प्रहृष्टाः अभवन् । सन्यासी
अपरः कश्चित् न, स्वामी विवेकानन्दः एव आसीत् तथा च उत्तरदाता विद्यार्थी
अनन्तरं राजनीतेः सनातनधर्मस्य च व्याख्यातृरूपेण प्रसिद्धः अभवत् । वयं
तं चक्रवर्ती राजगोपालाचार्य इति नाम्ना जानीमः ।  अधुनापि तस्य
रामायणमहाभारतादीनां अनुवादग्रन्था: जनानां अतीव प्रियग्रन्थाः सन्ति ।

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

 -वेङ्कटेश:


More information about the Advaita-l mailing list