[Advaita-l] Too much Vaishnava influence in this list we can balance it

Venkatesh Murthy vmurthy36 at gmail.com
Wed Jun 15 06:10:01 CDT 2011


अथ शिवस्तोत्राणि पठामः ।

 शिवप्रातःस्मरणम् ।

प्रातः स्मरामि भवभीतिहरं सुरेशं गंगाधरं वृषभवाहनमंबिकेशम्  ।
खट्वांगशूलवरदाभयहस्तमीशं संसारहरमौषधमद्वितीयम्  ॥ १ ॥

प्रातर्नमामि गिरीशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणादिदेवम्  ।
विश्वेश्वरं विजितविश्वमनोऽभिरामं संसारहरमौषधमद्वितीयम्  ॥ २ ॥

प्रातर्भजामि शिवमेकमन्तमाद्यं व्देआन्तवेद्यमनघं पुरुषं महान्तम्  ।
नामादि भेदरहितम् षड्भावशून्यं संसारहरमौषधमद्वितीयम्  ॥  ३ ॥

दारिद्र्यदहनस्तोत्रम्

विश्वेश्वराय नरकार्णवतारणाय करुणामृताय शशिशेखरभूषणाय  ।
कर्पूरकान्तिधवलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ १ ॥

गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकंकणाय  ।
गंगाधराय गजराजविमर्दनाय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ २ ॥

भक्तप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय   ।
ज्योतिर्मयाय पुनरुद्भववारणाय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ३ ॥

चर्मांबराय शवभस्मविलेपनाय भालेक्षणाय मणिकुंडलमंडिताय  ।
मन्जीरपादयुगलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ४ ॥

पंचाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमंडिताय  ।
आनन्दभूमिवरदाय तमोमयाय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ५ ॥

गौरीविलासभुवनाय महेश्वराय पंचाननाय शरणागतरक्षणाय ।
शर्वाय सर्वजगतामधिपाय तस्मै दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ६ ॥

भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय  ।
नेत्रत्रयाय शुभलक्षणलक्षिताय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ७ ॥

रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय   ।
पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ८ ॥

फलश्रुतिः

वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणं सर्वसंपत्करं शीघ्रं पुत्रपौत्रादिवर्धनम्
त्रिसंध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात्  ॥


-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list