[Advaita-l] Taittiriya Brahmana question

Venkatesh Murthy vmurthy36 at gmail.com
Wed Jun 29 04:49:48 CDT 2011


नमस्ते

सर्वं स्पष्टम् । धन्यवादः ।

2011/6/27 Anand Hudli <anandhudli at hotmail.com>:
> ब्रह्म जगदाकारेण परिणमते किम्? न। "नेह नानास्ति किञ्चन"
> इत्यादिश्रुतिबलान्निर्गुणं निर्विकारं निरवयवं निष्क्रियमद्वितीयं ब्रह्म जगतः
> परिणामिकारणमिति वक्तुं न शक्नुमः। यद्यप्यद्वैतमते ब्रह्मणो
> जगदुपादानत्वमङ्गीकृतं तथापि तदुपादानत्वं जगदध्यासाधिष्ठानत्वं, न
> परिणामिकारणम्। अथवा ब्रह्मण उपादानत्वं जगदाकारेण परिणममाणमायाधिष्ठानत्वम्।
> अत एवोक्तं पदार्थतत्वनिर्णयकारैः -
> ब्रह्म माया चेत्युभयमुपादानमित्युभयश्रुत्युपपत्तिः
> सत्ताजाड्यरूपोभयधर्मानुगत्युपपत्तिश्च। तत्र ब्रह्म विवर्तमानतयोपादानम्,
> अविद्या परिणममानतया।
>
> अथ को विवर्तः, कः परिणामः? उच्यते - वस्तुनस्तत्समसत्ताकोऽन्यथाभावः परिणामः,
> तदसमसत्ताको विवर्त इति। ब्रह्मणः पारमार्थिकसत्ता परंतु जगतो व्यावहारिकसत्ता,
> तस्मात् ब्रह्म जगतो विवर्तकारणम्। मायाया व्यावहारिकसत्ता, तस्मात् माया जगतः
> परिणामिकारणम्। शुक्तिरजतादिभ्रमेऽपि शुक्तेर्व्यावहारिकसत्ता रजतस्य तु
> प्रातिभासिकसत्ता, तस्मात् रजतस्य विवर्तकारणं शुक्तिः ।
>
> एतस्मिन्नेव  चर्चावेदिकायां  मयोक्तं  (English version)-
>
> http://www.advaita-vedanta.org/archives/advaita-l/2011-April/027072.html
>
>

अभिवादाः

-वेङ्कटेशः


More information about the Advaita-l mailing list