[Advaita-l] Application of pUrvamImAMsA nyAya to advaita vedanta

V Subrahmanian v.subrahmanian at gmail.com
Thu Nov 10 19:22:43 CST 2011


2011/11/10 Naresh Cuntoor <nareshpc at gmail.com>

>  अथायं न्यायः अद्यापि अनुपाल्यते लोके । तद्यथा वाहनचालने अयं प्रसङ्गो भवति
> । कश्चित् चालकः प्रमादाद्वा केनचिदन्येन कारणेन वा वाहनम् अवरुणद्धि । तस्य
> यानस्य पृष्ठतो गम्यमानं यानं झटित्येव अविरम्य, पूर्ववाहनेन घातितम् । तदा
> केन प्रायश्चित्तं कर्तव्यम् ? पूर्वचालकेन उत उत्तरचालकेन ? (किंच,
> प्रायश्चित्तं नाम धनार्पणं वा चालनानुमत्यां टिप्पणिर्वा स्यात्!)
>
> दोषः पूर्वचालकस्य वा यः गम्ये मार्गे वाहनम् अवरुद्ध्य क्लेशं जनितवान्,
> अथवा उत्तरचालकस्य - यः अनवधानाद्वा वेगाधिक्याद्वा घाते प्रवृत्तः ? अत्र
> उत्तरचालकस्य दोषं ब्रुवन्ति धर्माधिकारिणः । "पौर्वापर्ये पूर्वदौर्बल्यं
> प्रकृतिवत्" ।
>
> नायं वेदान्तविषयः इत्यभिजानन् विनोदाय लिखामि । क्षम्यताम् ।
>
> Naresh
> vaak.wordpress.com
>

सम्प्रत्येव समाप्तकार्याशालायां ख्यातविद्वांसः श्री के.ई. देवनाथन् महाभागाः
पूर्वमीमांसाशास्त्रमधिक्रूत्य विशेषोपन्यासं विततवन्तः। तदन्ते मया पृष्टमिदं
यत् ’अद्यतनकाले अस्य शास्त्रस्य किं प्रयोजनम् इति केचन पृच्छन्ति, तस्य किं
समाधानम् ? ’ इति । तैरिदमुक्तम् - ’अस्य शास्त्रगतन्याया बहवः शाश्त्रान्तरे,
विशेषतः वेदान्तशास्त्रे विचारार्थं स्वीकृताः सन्ति, यथायमपच्छेदन्यायः । तथा
आस्तिकानां कर्मानुष्ठानविषये सम्भावितसंशयादिपरिहारायापि शास्त्रस्यास्य
प्रयोजनमाप्तुं शक्यते । न्यायालयेऽपि न्यायाधीशाः अस्य
शास्त्रगतन्यायाननुसृत्य कदाचित् निर्णयं कुर्वन्तीत्यपि श्रुणुमः ’ इति ।
तेन भवदुक्तविनोदप्रसङ्गोऽपि यथार्थः स्यात्क्वचित् ।

सुब्रह्मण्यशर्मा


More information about the Advaita-l mailing list