[Advaita-l] मन्त्रशास्त्रम् ?

V Subrahmanian v.subrahmanian at gmail.com
Mon Jul 30 05:14:20 CDT 2012


सर्वान् सविनयं प्रणम्य इदं जिज्ञास्यते -

व्यासतात्पर्यनिर्णयाख्यग्रन्थे अन्ते इदमुक्तं ग्रन्थकारैः
श्रीअय्यण्णदीक्षितैः -

तदुक्तं मन्त्रशास्त्रे -

एकः सर्वेश्वरो भ्रान्त्या दृश्यते भिन्नवत्सदा ।
घटाकाशमठाकाशभेदेन तु यथा नभः ॥
भोगमोक्षप्रदो देवः परमात्मा जगन्मयः ।
नानोपास्यन्ति योगीन्द्रास्तमेवानन्दविग्रहम् ॥
महादेवो वासुदेवः शिवो विष्णुर्हरो हरिः ।
रुद्रो विरिञ्चिः *पाकारि*रित्येतैः शब्दितः पुमान् ॥
प्रकृतिर्मोहिनी विद्या दक्षकन्याद्रिजा रमा ।
वाणी रुद्राङ्गिरा काली गीस्तारा च जगत्प्रसूः ॥
गायत्री ब्रह्मविद्येति दैवतैका हि शब्दिता ।
एकमेव परं ब्रह्म पुंस्त्रीरूपविभागतः ।
द्विधाभूतं तयोरेकमुपास्य सुखमाप्नुयात् ॥ इति ।

अत्र ’पाकारिः’ इन्द्र इति ज्ञायते, पाको नाम असुरहन्ता इति कारणात् । अन्यथा
चेत् कृपया वदन्तु ।

मन्त्रशास्त्रस्थश्लोका एते इत्यवगम्यते परन्तु किमिदं मन्त्रशास्त्रम्,
तद्गतग्रन्था के इत्यादिविषये विवरणं प्राप्तुकामोऽस्मि । कस्मिन् ग्रन्थे एते
श्लोकाः पठ्यन्ते इत्यपि उच्यताम् ।

सुब्रह्मण्यशर्मा


More information about the Advaita-l mailing list