[Advaita-l] अद्वैतमते इन्द्रियाणि

श्रीमल्ललितालालितः via Advaita-l advaita-l at lists.advaita-vedanta.org
Sat Apr 26 02:37:31 CDT 2014


​​
​​अद्वैतमते तावदिन्द्रियाणि पृथङ्मनसः स्वीक्रियन्ते , श्रुतिबलात् ,
पञ्चीकरणेनोत्पत्त्यभिधानात् च भगवत्पादेन ।
इदानीं तेषां किं प्रयोजनम् इति चिन्तयामः ।
वेदान्तिनो हि प्रत्यक्षस्थले विषयदेशपर्य्यन्तं मनोगमनं स्वीकुर्व्वन्ति ।
तथा च चक्षुरादीनां तद्द्वारत्वमेव । चाक्षुषं च मनसो वृत्तिविशेषः
चक्षुरिन्द्रियद्वारा बहिर्निर्ग्गतः । तथैव श्रोत्रादिस्थले मनोऽभेदेऽपि
वृत्तौ द्वारप्रयुक्तवैजात्येन वैजात्यम् । अतो न सङ्करः ।
किञ्च यदि द्वारत्वमेव स्वीक्रियते चक्षुरादीनां तदा गोलकमात्रस्यापि
द्वारत्वोपपत्तौ किम् अतीन्द्रियेन्द्रियकल्पनेन इति न शङ्क्यम् ।
गोलकसत्त्वेऽप्यन्धत्वादीनामन्यथानुपपत्त्या तत्कल्पनात् । न च तर्हि
तदेवास्तु किं गोलकेन इति तु न वाच्यं , गोलकादीनामुपलब्धेः ।

इत्थं द्वारत्वस्वीकारेणैव सर्व्वस्मिन्नुपपन्ने चक्षुरादीनां विषयसन्निकर्षः
स्वीक्रियते न वा । स सन्निकर्षश्च कीदृशः । तत्र चक्षुरादिव्यापारो हेतुर्न
वा । इत्यादिकं ग्रन्थवाक्यान्यादायैव समर्थयन्तु विज्ञाः ।



*श्रीमल्ललितालालितः *www.lalitaalaalitah.com


More information about the Advaita-l mailing list