[Advaita-l] A Vishnu stuti authenticated by Shankara bhagavatpAda

D Gayatri dgayatrinov10 at gmail.com
Sun Aug 14 07:59:58 CDT 2016


Namaste

Here, I will present another Vishnu stuthi in the Mahabharata that is
authenticated by Shankara bhagavatpAda himself (and I am not talking
of BG here). In this stuti, Vishnu is again praised as the vedAntic
brahman and Shankara authenticates this in his BSB.

The topic in BSB is that in the chhandogya upanishad, Vaisvanara
should be taken to mean brahman and no other mundane meaning should be
attached to it. Shankara gives some reasons why this should be so and
in BSB 1.2.25, Shankara quotes the Mahabharata again -

BSB 1.2.25 -

इतश्च परमेश्वर एव वैश्वानरः ; यस्मात्परमेश्वरस्यैव ‘अग्निरास्यं
द्यौर्मूर्धा’ इतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते — ‘यस्याग्निरास्यं
द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै
लोकात्मने नमः’ इति । तत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य
वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थः ।
इतिशब्दो हेत्वर्थे — यस्मादिदं गमकम्, तस्मादपि वैश्वानरः
परमात्मैवेत्यर्थः । यद्यपि स्तुतिरियम् — ‘तस्मै लोकात्मने नमः’ इति,
तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण सम्भवति
। ‘द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे
। दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता’
इत्येवंजातीयका च स्मृतिरिहोदाहर्तव्या ॥ २५ ॥

The above contains the following quotation from the Mahabharata -

यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः


This quotation is taken from Mbh: 12.47.44 in the critical edition and
this is part of Bhishma's stuti to Krishna  -


भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा | शरतल्पगतः कृष्णं प्रदध्यौ
प्राञ्जलिः स्थितः ||७|| स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् |
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ||८|| कृताञ्जलिः
शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् | भीष्मः परमधर्मात्मा
वासुदेवमथास्तुवत् ||९|| आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् | तया
व्याससमासिन्या प्रीयतां पुरुषोत्तमः ||१०|| शुचिः शुचिषदं हंसं तत्परः
परमेष्ठिनम् | युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ||११||
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च | गुणभूतानि भूतेशे सूत्रे
मणिगणा इव ||१२|| यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति |
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ||१३|| हरिं सहस्रशिरसं
सहस्रचरणेक्षणम् | प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ||१४||
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् | गरीयसां गरिष्ठं च श्रेष्ठं च
श्रेयसामपि ||१५|| यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च | गृणन्ति
सत्यकर्माणं सत्यं सत्येषु सामसु ||१६|| चतुर्भिश्चतुरात्मानं सत्त्वस्थं
सात्वतां पतिम् | यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ||१७|| यं
देवं देवकी देवी वसुदेवादजीजनत् | भौमस्य ब्रह्मणो गुप्त्यै
दीप्तमग्निमिवारणिः ||१८|| यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् |
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ||१९|| पुराणे पुरुषः
प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु | क्षये सङ्कर्षणः
प्रोक्तस्तमुपास्यमुपास्महे ||२०||
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् | अतिबुद्धीन्द्रियात्मानं तं
प्रपद्ये प्रजापतिम् ||२१|| यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्
| वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ||२२|| हिरण्यवर्णं यं
गर्भमदितिर्दैत्यनाशनम् | एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः
||२३|| शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः | यश्च राजा
द्विजातीनां तस्मै सोमात्मने नमः ||२४|| महतस्तमसः पारे पुरुषं
ज्वलनद्युतिम् | यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ||२५||
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे | यं विप्रसङ्घा गायन्ति
तस्मै वेदात्मने नमः ||२६|| ऋग्यजुःसामधामानं दशार्धहविराकृतिम् | यं
सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ||२७|| यः सुपर्णो यजुर्नाम
छन्दोगात्रस्त्रिवृच्छिराः | रथन्तरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः
||२८|| यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः | हिरण्यवर्णः
शकुनिस्तस्मै हंसात्मने नमः ||२९|| पदाङ्गं सन्धिपर्वाणं
स्वरव्यञ्जनलक्षणम् | यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः ||३०||
यश्चिनोति सतां सेतुमृतेनामृतयोनिना | धर्मार्थव्यवहाराङ्गैस्तस्मै
सत्यात्मने नमः ||३१|| यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः | पृथग्धर्मैः
समर्चन्ति तस्मै धर्मात्मने नमः ||३२|| यं तं व्यक्तस्थमव्यक्तं
विचिन्वन्ति महर्षयः | क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने
नमः ||३३|| यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः | प्राहुः सप्तदशं
साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ||३४|| यं विनिद्रा जितश्वासाः
सत्त्वस्थाः संयतेन्द्रियाः | ज्योतिः पश्यन्ति युञ्जानास्तस्मै
योगात्मने नमः ||३५|| अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः | शान्ताः
संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ||३६|| योऽसौ युगसहस्रान्ते
प्रदीप्तार्चिर्विभावसुः | सम्भक्षयति भूतानि तस्मै घोरात्मने नमः ||३७||
सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् | बालः स्वपिति
यश्चैकस्तस्मै मायात्मने नमः ||३८|| सहस्रशिरसे तस्मै पुरुषायामितात्मने
| चतुःसमुद्रपर्याययोगनिद्रात्मने नमः ||३९|| अजस्य नाभावध्येकं
यस्मिन्विश्वं प्रतिष्ठितम् | पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने
नमः ||४०|| यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु | कुक्षौ
समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ||४१|| युगेष्वावर्तते
योंऽशैर्दिनर्त्वनयहायनैः | सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः
||४२|| ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः | पादौ
यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ||४३|| ***यस्याग्निरास्यं
द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः | सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै
लोकात्मने नमः ||४४||***

The last line in the above is the one quoted by Shankara bhagavatpAda.
(The stuti continues further where Krishna is praised as the AtmA of
soma, surya, rudra, brahma and everything, but I have posted the
Sanskrit text till here). One who reads the above will clearly know
that this is stuti of Krishna/Vishnu. Since it is difficult to write
out the full translation, I will present the translation from K M
Ganguly (which contains many interpolation verses in the middle,
because it is not based on the critical edition), but the over all
tone should be clear that it praises Vishnu as vedAntic brahman. The
translation can be found here -

http://www.sacred-texts.com/hin/m12/m12a047.htm

By quoting this Vishnu stuti in his BSB, Shankara has also
authenticated this portion of Mahabharata. This once again shows that
Shankara accepted Vishnu as brahman.

Regards
Gayatri


More information about the Advaita-l mailing list