[Advaita-l] Fwd: {भारतीयविद्वत्परिषत्} 'Śiva Linga pūjā' in the Mahabharata

V Subrahmanian v.subrahmanian at gmail.com
Thu Dec 29 04:10:42 CST 2016


---------- Forwarded message ----------
From: V Subrahmanian <v.subrahmanian at gmail.com>
Date: 2016-12-29 15:37 GMT+05:30
Subject: {भारतीयविद्वत्परिषत्} 'Śiva Linga pūjā' in the Mahabharata
To: BHARATIYA VIDVAT <bvparishat at googlegroups.com>


Here are some references in the Mahabharata BORI edition where Śivaliṅga
pūjā' is praised:

Vāsudeva instructs Yudhiṣṭhira:

http://bombay.indology.info/mahabharata/text/UD/MBh13.txt

13146009c शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः
13146010a दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत्
13146010c *स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः*
13146011a यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा
13146011c स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः
13146012a धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते
13146012c विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः
13146013a सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा
13146013c चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम्
13146014a सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः
13146014c तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः
13146015a *नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् [this perhaps
explains the Urdhvaretas ephithet]*
13146015c महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः
13146016a विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः
13146016c लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते
13146017a ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा
13146017c लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम्
13146018a पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः
13146018c सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः
13146019a एष एव श्मशानेषु देवो वसति नित्यशः
13146019c यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम्



13014100  उपमन्युरुवाच
13014100a हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम्
13014100c न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः
13014101a कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम्
13014101c अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः*13014102a
यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः
13014102c अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः*

The above is just a sample.

regards

subrahmanian.v


-- 
You received this message because you are subscribed to the Google Groups
"भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an
email to bvparishat+unsubscribe at googlegroups.com.
To post to this group, send email to bvparishat at googlegroups.com.
For more options, visit https://groups.google.com/d/optout.


More information about the Advaita-l mailing list