[Advaita-l] Does praNava upAsanA leads to brahmaloka?

V Subrahmanian v.subrahmanian at gmail.com
Wed Oct 12 12:46:37 CDT 2016


On Wed, Oct 12, 2016 at 10:40 PM, Venkatraghavan S via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> One can use OmkAra or any mantra as a support for either upAsana or
> nidhidhyAsana.
>

I do not know if the Kathopanishat 1.2.14... instance of Omkra is already
considered in this thread. Reproduced here are the relevant mantras along
with the bhāṣya.  The idea is: Om is a support both for apara brahma prāpti
and para brahman realization. Those who require the translation may consult
the one by Swami Gambhirananda:

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥
भाष्यम्
एतच्छ्रुत्वा नचिकेताः पुनराह — यद्यहं योग्यः, प्रसन्नश्चासि भगवन्, मां
प्रति अन्यत्र धर्मात् शास्त्रीयाद्धर्मानुष्ठानात्तत्फलात्तत्कारकेभ्यश्च
पृथग्भूतमित्यर्थः । तथा अन्यत्र अधर्मात् विहिताकरणरूपात् पापात्, तथा
अन्यत्रास्मात्कृताकृतात्, कृतं कार्यमकृतं कारणमस्मादन्यत्र । किञ्च, अन्यत्र
भूताच्च अतिक्रान्तात्कालात् भव्याच्च भविष्यतश्च तथा अन्यत्र वर्तमानात् ।
कालत्रयेण यन्न परिच्छिद्यत इत्यर्थः । यदीदृशं वस्तु सर्वव्यवहारगोचरातीतं
पश्यसि जानासि तद्वद मह्यम् ॥
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥ १५ ॥
भाष्यम्
इत्येवं पृष्टवते मृत्युरुवाच, पृष्टं वस्तु विशेषणान्तरं च विवक्षन् । सर्वे
वेदा यत्पदं पदनीयं गमनीयम् अविभागेन अविरोधेन आमनन्ति प्रतिपादयन्ति, तपांसि
सर्वाणि च यद्वदन्ति यत्प्राप्त्यर्थानीत्यर्थः । यदिच्छन्तो ब्रह्मचर्यं
गुरुकुलवासलक्षणमन्यद्वा ब्रह्मप्राप्त्यर्थं चरन्ति, तत् ते तुभ्यं पदं
यज्ज्ञातुमिच्छसि सङ्ग्रहेण सङ्क्षेपतः ब्रवीमि ओं इत्येतत् । तदेतत्पदं
यद्बुभुत्सितं त्वया तदेतदोमिति *ओंशब्दवाच्यमोंशब्दप्रतीकं च* ॥
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥
भाष्यम्
अतः एतद्ध्येवाक्षरं ब्रह्म अपरम् एतद्ध्येवाक्षरं परं च । तयोर्हि
प्रतीकमेतदक्षरम् । एतद्ध्येवाक्षरं ज्ञात्वा उपास्य ब्रह्मेति यो यदिच्छति
परमपरं वा तस्य तत् भवति । *परं चेत् ज्ञातव्यम्, अपरं चेत् प्राप्तव्यम् ॥*
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥
भाष्यम्
यत एवम्, अत एव *एतत् ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं प्रशस्यतमम्* ।
एतदालम्बनं परम् अपरं च, परापरब्रह्मविषयत्वात् । एतदालम्बनं ज्ञात्वा
ब्रह्मलोके महीयते । परस्मिन्ब्रह्मण्यपरस्मिंश्च ब्रह्मभूतो ब्रह्मवदुपास्यो
भवतीत्यर्थः ॥

regards
vs

>
> The former is well known. The latter is  mentioned in Mandukya kArika when
> discussing the Upanishad equating the amAtra of OmkAra with turIya. One
> starts off by drawing the attention to the mantra, then moving that
> attention to the silence between two repetitions, expanding the duration of
> the silence, gradually withdrawing the mantra and focusing on that because
> of which there is awareness of silence - that is the sAkshi.
>
> Regards,
> Venkatraghavan
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list