[Advaita-l] Definition of 'Sūtra, Bhāṣya, Vārtikam, Prakaraṇam...etc.'

V Subrahmanian v.subrahmanian at gmail.com
Wed Oct 26 17:50:21 CDT 2016


Definition of 'Sūtra, Bhāṣya, Vārtikam, Prakaraṇam...etc.'

In the Panchapādikā, Sri Padmapādāchārya says:

(saptamam varNakam which covers the earlier sUtra शास्त्रयोनित्वात्) Here
the PanchapAdikA says: //  कथं पुनः एकस्य सूत्रस्य अर्थद्वयम् ?
सूत्रत्वादेव । तथा च *पौराणिकाः* -   अल्पाक्षरमसन्दिग्धं
सारवद्विश्वतोमुखम्, अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ’ इति । ’विश्वतो
मुखम्’ इति नानार्थतामाह । अतो अलंकारैव सूत्राणां यदनेकार्थता नाम ।  //

The above verse defining a 'sūtram' is stated by him as in the purāṇa. We
find this verse along with the definition-verses of 'bhāṣya', etc.  in the
Parāśara- upapurāṇam:

*अल्पाक्षरमसन्दिन्धं सारवद् विश्वतो मुखम्  १३*

*अस्तोभमनवद्यं च सूत्रं सूत्रविदो **विदुः*  [Sūtram]

मुनयश्च मनुष्याश्च प्रसादादेव शूलिनः  १४

सूत्रार्थं भाष्यरूपेण यथावद् दर्शयन्ति च

*सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः  १५*

*स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः  [Bhāṣyam]*

प्रसादादेव रुद्रस्य भवानीसहितस्य तु  १६

कुर्वन्ति केचिद् व्याख्यानं भाष्यस्यैव तपोबलात्

*पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना  १७*

आक्षेपस्य समाधानं व्याख्यानं *पञ्चलक्षणम्  [*Vyākhyānam]

केचिद्वार्तिकरूपेण भाष्यार्थं कथयन्ति च  १८

प्रासादादेव रुद्रस्य पूर्वे पूर्वतपोबलात्

*उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते  १९*

तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञा *मनीषिणः  [*Vārtikam]

स्वबुद्ध्यधीनं भाष्यार्थं सङ्ग्रहेणैव चाथवा  २०

विस्तरेण प्रकुर्वन्ति केचित् प्रकरणात्मना

*शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम्  २१*

आहुः प्रकरणं नाम *शास्त्रभेदविचक्षणाः  *[Prakaraṇam]

सूत्रभाष्यादिभिः शास्त्रं साक्षाद्वेदनसाधनम्  २२

 (The sūtra-definition verse is also found in the Skanda purāṇam and is
cited by Madhvacharya.)

regards
subrahmanian.v


More information about the Advaita-l mailing list