[Advaita-l] अद्य प्रेमदिने (Valentine's day) इदं चिन्तनीयम्

Venkatesh Murthy vmurthy36 at gmail.com
Tue Feb 14 08:12:51 EST 2017


नमो विद्वद्भ्यः ,

’आत्मनस्तु कामाय सर्वं प्रियं भवती’ ति श्रुतिः । अतः आत्मनि दृश्यमानं
यत्प्रेम तत्परमं निरतिशयं भवति । दारादिषु प्रेम तु आत्मप्रेमसापेक्षम्
। आत्मनि प्रेम प्रेमान्तरनिरपेक्षम् । उक्तं च पञ्चदश्यां
विद्यारण्यमुनिभिः -
तत्प्रेमार्थमन्यत्र नैवमन्यार्थमात्मनः ।
अतस्तत्परमं तेन परमानन्दताऽत्मनः ॥



-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list