[Advaita-l] vishnu purana - bhranti, etc. references

V Subrahmanian v.subrahmanian at gmail.com
Wed Jan 31 06:21:07 EST 2018


vishnu purana - bhranti, etc. references

Here are just a few, of the many, verses where the Advaitic concepts of
ajnana, bhrama, etc. are present in the Vishnu Puranam:  [As an exercise,
members may please give the gist of the verses, if they can. Thanks.]

यदेतद्दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव  ।

भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः  ॥ १,४.३९ ॥

ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः  ।

अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे  ॥ १,४.४० ॥

ये तु ज्ञानविदः सुद्धचेतसस्तेऽखिलं जगत् ।

ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर  ॥ १,४.४१ ॥


ज्ञानस्वरूपो भगवान्यतोसावशेषमूर्तिर्न तु वस्तुभूतः  ।

ततो हि शैलाब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि  ॥ २,१२.३९ ॥

यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम्  ।


भेदकारि परेभ्यस्तु परमार्थो न भेदवान्  ॥ २,१४.२६ ॥

परमात्मात्मनोर्योगः परमार्थ इतीष्यते  ।

मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः  ॥ २,१४.२७ ॥

तस्माच्छ्रेयांस्यशेषाणि नृवैतानि न संशयः  ।

परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम  ॥ २,१४.२८ ॥

एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः  ।

जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः  ॥ २,१४.२९ ॥

परज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः  ।

न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते  ॥ २,१४.३० ॥

तस्यात्मपरदेहेषु सतोप्येकमयं हि यत् ।

विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यर्शिनः  ॥ २,१४.३१ ॥

वेणुरन्ध्रप्रभेदेन भेदः षङ्जादिसंज्ञितः  ।

अभेदव्यापिनोवायोस्तथास्य परमात्मनः  ॥ २,१४.३२ ॥

एकस्वरूपभेदश्च ब्राह्मकर्मावृतिप्रजः  ।

देवादिभेदेऽपध्वस्तें नास्त्येवावरणे हि सः  ॥ २,१४.३३ ॥

इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे चतुर्दशोऽध्यायः (१४)


Ribhu- Nidagha  story:


अपाप्तज्ञानतन्त्रस्य न तस्याद्वैतवासना  ।

स ऋभुस्तर्कयामास निदाघस्य नरेश्वर  ॥ २,१५.५ ॥

देविकायास्तटे वीरनगरं नाम वै पुरम्  ।


....ऋबुरुवाच

तवोपदेशदानाय पूर्वशुश्रुषणादृतः  ।

गुरुस्नेहादृभुर्नाम निदाघ समुपागतः  ॥ २,१६.१७ ॥

तदेतदुपदिष्टं ते संक्षेपेण महामते  ।

परमार्थसारभूतं यदद्वैतमशेषतः  ॥ २,१६.१८ ॥


भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ २,१६.२२ ॥

एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् ।

सोऽहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम्  ॥ २,१६.२३ ॥



विज्ञानमयमेवैतदशेषमवगच्छत  ।

बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम्  ॥ ३,१८.१८ ॥

जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम्  ।

रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे  ॥ ३,१८.१९ ॥


तद्भावभावमापन्नस्ततोऽसौ परमात्मना  ।

भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ ६,७.९५ ॥

विभेदजनके ज्ञाने नाशमात्यन्तिकं गते  ।

आत्मनो ब्रह्मणो भेदमसंतं कः करीष्यति  ॥ ६,७.९६ ॥


अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम्  ॥ १,१४.४० ॥

अनामगोमत्रसुखमतेजस्कमहेतुकम्  ।

अभयं भ्रान्तिरहितम निद्रमजरामरम्  ॥ १,१४.४१ ॥


तथा त्वमपि धर्मज्ञ तुल्योत्मरीपुबान्धवः  ।

भव सर्गगतं जानन्नत्मानमवनीपते  ॥ २,१६.२१ ॥

सितनीला दिभेदेन यथैकं दृश्यते नभः  ।

भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ २,१६.२२ ॥

एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् ।

सोऽहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम्  ॥ २,१६.२३ ॥


खाण्डिक्य उवाच

कथिते योगसद्भावे सर्वमेव कृतं मम  ।

तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः  ॥ ६,७.९८ ॥

ममेति यन्मया चोक्तमसदेतन्न चान्यथा  ।

नरेद्र गदितुं शक्यमपि विज्ञेयवेदिभिः  ॥ ६,७.९९ ॥

अहं ममेत्यविद्येयं व्यवहारस्तथानयोः  ।
Sridhara Swamin writes here: When the impurity of the mind in the form of I
and mine has vanished, is it not a contradiction when I say 'By Your
teaching...'? The reply is 'No.' What I have said is asat alone but
expressed as a lingering of that which has been sublated: बाधितानुवृत्त्या.
Otherwise, it is impossible to even speak by the Knowers of the Truth;
where is the question of experiencing the effects of the prarabdha karma?
 [The idea is: unless we accept the  बाधितानुवृत्त्या ...idea, the Jnani
teaching someone, his living out his life till the fall of the body, etc.
cannot be explained.]

अहं ममेत्यविद्येयं व्यवहारस्तथानयोः  ।

परमार्थस्त्वसंलापो गोचरे वचसां न यः  ॥ ६,७.१०० ॥
The notion of I and mine are avidya, ignorance

तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः  ।

विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम्  ॥ ६,७.१०४ ॥

The King sat in concentration, endowed with the disciplines of yama, etc.
He attained merger with the Blemishless Brahman known as Vishnu.


[Here the adjective for Vishnu indicate that it is Nirguna Brahman and not
any formed deity. For, it is impossible to attain any merger in a limited
formed entity. This reminds us of Shankara's bhashya for the kathopanishat
statement  तत् विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं
प्रकृष्टं पदं स्थानम् , सतत्त्वमित्येतत् , यत् असावाप्नोति…  for the
mantra  सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९ ॥  1.3.9


regards

subrahmanian.v


More information about the Advaita-l mailing list