[Advaita-l] Anantaa vai vedaah

Siva Senani Nori sivasenani at yahoo.com
Wed Aug 24 13:25:01 CDT 2011


Recently there was a question on this. Given below are the relevant extracts from the Taittiriya Brahmana, SaayaNabhaashya, Bhattabhaaskarabhaashya. Here is a brief (and rough) English translation.
 
Long time back a sage called Bharadvaaja propitiated Indra and got three lifespans (of 100 years each) more. He used them to study Vedas by practising Brahmacharya and by staying with the Guru. At the end of it, as he lay unable to move, Indra asked him what he would do if he got a fourth lifespan. Bharadvaaja replied that he would continue to study the Vedas. Then in order to show the impossibility of that, Indra showed three mountains (here the commentators differ slightly) as Vedas, took three handfuls of mud from them and said "these are the three Vedas read by you, and those the mountains are what remain to be studied; the Vedas are endless". Indra then preached Bharadvaaja the Savitragni which gives the same result as knowing all the Vedas.
 
Another place where this matter is discussed is in the PaspaSaahnikam (a critical introduction or epilogue) of the VyaakaraNa Mahaabhaashyam of Patanjali. There, Patanjali says:
 
"Great is the range for the use of words -- earth with its seven island-continents, three worlds, four vedas with their angas and upanishads with manifold varieties, Yajurveda with 101 recensions, Saamaveda with 1000 recensions, Rigveda with 21 recensions and Atharvaveda with nine recensions, science of discussions, history, puraaNas and works on medicine." (p65, Vidyaratna P. S. Subrahmany Sastri; Lecutres on Patanjali's Mahabhashya, Vol. I, Annamalai University Sanskrit Series No. 9, Annamaali Nagar, 1944).
 
Regards
N. Siva Senani
 
मूलम् –तैत्तिरीयब्राह्मणे तृतीयेऽष्टके दशमे प्रपाठके एकादशतमेऽनुवाके पठ्यते। तच्च यथा।
 
... भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवास। तं ह जीर्णं स्थविरं शयानम्। इन्द्र उपव्रज्योवाच। भरद्वाज। यत्ते चतुर्थमायुर्दद्याम्। किमेनेन कुर्या इति। ब्रह्मचर्यमेवैनेन चरेयमिति होवाच ।। 3 ।।
 
तं ह त्रीन्गिरिरूपानविज्ञातानिव दर्शयाञ्चकार। तेषां हैकैकस्मान्मुष्टिमाददे। स होवाच। भरद्वाजेत्यामन्त्र्य। वेदा वा एते।अनन्ता वै वेदाः। एतद्वा एतैस्त्रिभिरायुर्भिरन्ववोचथाः। अथ तम् इतरदननूक्तमेव। एहीमं विद्धि। अयं वै सर्वविद्येति ।। 4 ।।
 
तस्मै हैतमग्निं सावित्रमुवाच। तं स विदित्वा। अमृतो भूत्वा। स्वर्गं लोकमियाय। आदित्यस्य सायुज्यम् इति।
 
श्रीमत्सायाणाचार्यविरचितभाष्यम्
 
पुरा कदाचिद्भरद्वाजाख्यो महर्षिः सर्वेषां वेदानामध्ययने कृतप्रयत्नं इन्द्रं _साद्य तत्प्रसादाच्छतसंवत्सरपरिमि-तानि त्रीणयायूंषि लब्ध्वा तैरायुर्भिर्ब्रह्मचर्यमुवास वेदाध्ययनमुद्दिश्य गुरुकुले वासं कृतवान्। शतत्रयस्यान्ते जीर्णशरीरं वृद्धमशक्तत्वेन शयानं तं भहद्वाजं प्रतीन्द्र उपेत्योवाच। यच्चतुर्थमायुस्तुभ्यं दद्यामेतेनाऽऽयुषा किं कुर्याः
 कं पुरुषार्थं साधयसीति। स च वेदाध्ययनमेव करिष्यामीत्युवाच। ततः सर्ववेदाध्ययनकृतयत्नं तं भरद्वाजमुद्दिश्य सर्वाध्ययनस्याशक्यत्वं बोधयितुमृग्यजुःसामवेदानां त्रायाणां स्वकीययोगसामर्थ्येन पर्वता-कारत्वं सम्पाद्य गिरित्रयरूपान्पूर्वमविज्ञातानेव वेदानस्मै दर्शयामास। ततस्तेषां पर्वातानां मध्य एकैकस्मा-त्पर्वतान्मुष्टिना पांसूनाददे। आदायैवमुवाच --
 हे भहद्वाज, एते त्रयः पर्वता वेदा एव। तत्रैकैकः पांसरेको वेदस्तस्मादनन्ता वेदास्तेषां मध्ये त्वमेतैस्त्रिभिरायुर्भिरेतन्मुष्टित्रयपरिमितं वेदजातं गुरूपदेशमन्वधीतवान् असि। अथानन्तरं तवेतरद्वेदजातमनधीतमेव। तस्मात्सर्वंवेदाध्ययनमशक्यमेव। यदि सर्वाध्ययनफलमपेक्षितं तर्ह्यागच्छेमं सावित्रमग्निं विद्धि ध्यानेनसाक्षात्कुरु।अयमेव सावित्रोऽग्निः
 सर्ववेदविषया विद्येत्येवं बोधयित्वा तस्मै भरद्वाजायैतं सावित्रमाग्निं पूर्वोक्तप्रकारेणोवाच। ततः स भरद्वाजस्वं सावित्रमग्निं ध्यानेन स्वात्मतया साक्षात्कृत्य तदग्निरूपः स्वयममृतो देवो भूत्वा वर्तमानदेहादूर्ध्वं स्वर्गं प्राप्य तत्राऽऽदित्य-सायुज्यं प्राप्तवान्।
 
भट्टभास्कराचार्यकृतभाष्यम्
 
भरद्वाजइत्यादि।। त्रिभिरायुर्भिः पुरुषायुषस्य त्रिभिरंशैः ब्रह्मचर्यं ब्रह्म वेदः,  तदर्थं व्रतं ब्रह्मचर्यं,तन्निमित्तं गुरुकुले उवास ब्रह्मचर्यमेव वा गुरुकुलवासेन कृतवान् गुरुकुले स्थितो वेदानधिजगे। अथ जीर्णंजरां प्राप्तम्। औणादिको निप्रत्यः। स्थविरं स्थावरकल्पं शयानं निश्चेष्टं उपव्रज्य उपसङ्गम्य इन्द्र उवाच –हे भरद्वाज !यद्यहं
 चतुर्थमप्यायुषोंऽशं तुभ्यं दद्यां किमनेन कालेन त्वं कुर्याः? इति।अथ भरद्वाज उवाच – ब्रह्मचर्यमेव एनेनप्यायुषा चरेयं नानधीत्यसर्वान् वेदान् ब्रह्मचर्याद्विरमेयमिति। अथ कृत्स्नवेदाध्ययनस्य अशक्यतां दर्शयितुं गिरिरूपान् प्रशस्तान् पर्वतान् वेदमयान्, प्रशंसायां रूपप्। त्रीन् त्रयीलक्षणानविज्ञातानिव अननुभूतपूर्वनिव स्थितान् तं भरद्वाजं दर्शयामास। ‘
 अभिभवादिदृशोरात्मनेपद उपसङ्ख्यानम्’इति वयनाद्व्यत्ययेन भरद्वाजस्य कर्मत्वम्। अथेन्द्रस्तेषां वेदराशीनमेकदेशमेकैकस्माद्गिरेः मुष्टिना मुष्टिमात्रया आददे। आदाय च भरद्वाजेति भहद्वाजमवधानार्थमामन्त्र्य इन्द्र उवाच – एतेगिरिस्थानीया वेदराशयः। अनन्ताः खलु वेदाः, एतत्खलु मुष्टित्रयमात्रमेव एतैस्त्रिभिरायुर्भिः अन्ववोचथाः गुरूपदेशमनु अधीतवानसि। अथ
 अनन्तरं तव इतरत् वेदजातं अननूक्तं अनधीतमेव। तस्मात्सर्वान् वेदान् कोऽध्येप्यते ? एहिसाधो ! इमं सावित्रं विद्धि, अयं हि सावित्रः सर्वविद्या सर्ववेदविद्याध्ययनपुण्यफलावाप्तिहेतुः, तस्मात्तत्किं वृथाश्रमेण ? इदमेव वेदितव्यमित्युक्त्वा तस्मै भरद्वाजाय सावित्रमुवाच। तमित्यादि गतम् ।।


More information about the Advaita-l mailing list