[Advaita-l] Brahmin Bridegrooms in rural places not getting brides

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Sat Jul 9 01:39:29 CDT 2011


अत्र करणीयं किमपि न पश्यामि. ग्रामीण युवकाः यदृच्छालाभसंतुष्टाः भवन्तु.
तदेव तेभ्यो सुखकरं , शुभकरमपीति मे मतिः.


अभिवादाः
शर्मा.
2011/7/9 Venkatesh Murthy <vmurthy36 at gmail.com>

> अद्यतनयुवकाः परंपरागतं स्वस्वकुलस्य वृत्तिम् अनिच्छंतः केवलं
> धनेन्द्रियसुखप्राप्त्यर्थं ऐ.टी.-बी.टी. इत्यादि उच्चतान्त्रिक है.टेक्.
> वृत्तिमेव कुर्वन्ति । प्रायः ग्रामीणप्रदेशीययुवकाः ग्रामान् त्यक्त्वा
> बेन्गलूरुचेन्नै-आदिनगारेषु उद्योगान् कुर्वन्ति वसन्ति च ।
> ग्रामीणप्रदेशीयकन्याः अपि नगरेषु लभ्यसुखानां कामनाभिः चोदिताः
> ग्रामीणप्रदेशीय वरान् परिणेतुं न इच्छन्ति किंतु नगरस्थान् वरानेव |
> कोऽपि पिता स्वकन्यां ग्रामस्थवराय दातुं न सिद्धो भवति । इयं
> बृहत्समस्या ब्राह्मणवरान् पीडयति । समस्यायाः किंचित् समाधानं करणीयम् ।
> शृगेरीमठाधीशाः श्रीभारतीतीर्थस्वामिनः एवम् समस्यापीडितान्
> स्मार्तब्राह्मणान् वरान् उपदिशन्ति यूयं रामानुजमध्वादिमतस्थकन्याम् अपि
> मांसभक्षणादिव्यसनरहिताम् अन्यवर्णामपि कन्यां वा स्वीकुरुत इति । इति
> मया वार्ता श्रूयते इदं सत्यं वा न जानामि । अत्र
> ब्राह्मणविवाहसमस्याविषये विदुषाम् अभिप्रायान् श्रोतुमिच्छामि ।
>
> धन्यवादः
>
> -वेङ्कटेशः
>
> Kindly reply in Sanskrit or English
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list