[Advaita-l] Taittiriya Brahmana question

Anand Hudli anandhudli at hotmail.com
Sun Jun 26 22:53:38 CDT 2011


ब्रह्म जगदाकारेण परिणमते किम्? न। "नेह नानास्ति किञ्चन"
इत्यादिश्रुतिबलान्निर्गुणं निर्विकारं निरवयवं निष्क्रियमद्वितीयं ब्रह्म जगतः
परिणामिकारणमिति वक्तुं न शक्नुमः। यद्यप्यद्वैतमते ब्रह्मणो
जगदुपादानत्वमङ्गीकृतं तथापि तदुपादानत्वं जगदध्यासाधिष्ठानत्वं, न
परिणामिकारणम्। अथवा ब्रह्मण उपादानत्वं जगदाकारेण परिणममाणमायाधिष्ठानत्वम्।
अत एवोक्तं पदार्थतत्वनिर्णयकारैः -
ब्रह्म माया चेत्युभयमुपादानमित्युभयश्रुत्युपपत्तिः
सत्ताजाड्यरूपोभयधर्मानुगत्युपपत्तिश्च। तत्र ब्रह्म विवर्तमानतयोपादानम्,
अविद्या परिणममानतया।

अथ को विवर्तः, कः परिणामः? उच्यते - वस्तुनस्तत्समसत्ताकोऽन्यथाभावः परिणामः,
तदसमसत्ताको विवर्त इति। ब्रह्मणः पारमार्थिकसत्ता परंतु जगतो व्यावहारिकसत्ता,
तस्मात् ब्रह्म जगतो विवर्तकारणम्। मायाया व्यावहारिकसत्ता, तस्मात् माया जगतः
परिणामिकारणम्। शुक्तिरजतादिभ्रमेऽपि शुक्तेर्व्यावहारिकसत्ता रजतस्य तु
प्रातिभासिकसत्ता, तस्मात् रजतस्य विवर्तकारणं शुक्तिः ।

एतस्मिन्नेव  चर्चावेदिकायां  मयोक्तं  (English version)-

http://www.advaita-vedanta.org/archives/advaita-l/2011-April/027072.html


अभिवादाः

आनन्दः


More information about the Advaita-l mailing list