[Advaita-l] Application of pUrvamImAMsA nyAya to advaita vedanta
Naresh Cuntoor
nareshpc at gmail.com
Thu Nov 10 11:48:33 CST 2011
अथायं न्यायः अद्यापि अनुपाल्यते लोके । तद्यथा वाहनचालने अयं प्रसङ्गो भवति
। कश्चित् चालकः प्रमादाद्वा केनचिदन्येन कारणेन वा वाहनम् अवरुणद्धि । तस्य
यानस्य पृष्ठतो गम्यमानं यानं झटित्येव अविरम्य, पूर्ववाहनेन घातितम् । तदा
केन प्रायश्चित्तं कर्तव्यम् ? पूर्वचालकेन उत उत्तरचालकेन ? (किंच,
प्रायश्चित्तं नाम धनार्पणं वा चालनानुमत्यां टिप्पणिर्वा स्यात्!)
दोषः पूर्वचालकस्य वा यः गम्ये मार्गे वाहनम् अवरुद्ध्य क्लेशं जनितवान्,
अथवा उत्तरचालकस्य - यः अनवधानाद्वा वेगाधिक्याद्वा घाते प्रवृत्तः ? अत्र
उत्तरचालकस्य दोषं ब्रुवन्ति धर्माधिकारिणः । "पौर्वापर्ये पूर्वदौर्बल्यं
प्रकृतिवत्" ।
नायं वेदान्तविषयः इत्यभिजानन् विनोदाय लिखामि । क्षम्यताम् ।
Naresh
vaak.wordpress.com
2011/11/10 Anand Hudli <anandhudli at hotmail.com>
> ज्योतिष्टोमयागस्यायं प्रसङ्गः। यदा प्रातःसवने बहिष्पवमानेन स्तोष्यमाणा
> सर्वे ऋत्विजः यागशालाया बहिः प्रसर्पन्ति तदानीमेकस्य पृष्ठतोऽन्य इति
> पङ्क्त्याकारेण गच्छन्ति। तत्र पुरतो गच्छतः ऋत्विजः कच्छं गृहित्वा
> पृष्ठतोऽन्येन गन्तव्यम्। प्रमादाद्यदि सामवेदी
> ऋत्विक् उद्गाता गृहीतं पुरतो गच्छतः कच्छं मुञ्चेत् तर्हि ऋत्विग्भ्यो
> दक्षिणां अदत्वा एव यज्ञः समापनीयः। किंच तं यज्ञं समाप्य पुनरपि
> यज्ञोऽनुष्ठेयः। यदि ऋत्विक् प्रतिहर्ता कच्छं मुञ्चेत् तदा तस्मिन्नेव यज्ञे
> सर्वस्वं दद्यात्।
> यदा पौर्वापर्येण द्वयो: ऋत्विजोः उद्गातृप्रतिहर्त्रोरपच्छेदे किं
> प्रायश्चित्तम्?
> तत्र पूर्वमीमांसासूत्रस्य "पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्" (६.५.५४)
> शाबरभाष्ये अयं सन्देहस्तत्परिहारश्च -
> "यत्र आनुपूर्व्येण भवति अपच्छेदः किं पूर्वनिमित्तं प्रायश्चित्तं, उत
> उत्तरनिमित्तं इति भवति संशयः। किं प्राप्तम्? (पूर्वपक्षः-) पूर्वस्य
> बलीयस्त्वम्। पूर्वापच्छेदे यत् नैमित्तिकं प्राप्तं, तस्मिन् सति तद्विरुद्धं
> न शक्यं कर्तुम्। न चाशक्यमुपदेशार्हं भवति। पूर्वविज्ञानं प्राप्तमिति न
> संशयः। तस्मात् तदविरोधेन अन्यत् कार्यं, न विरुद्धम्। क्व तर्हि तत् स्यात्?
> यत्र केवलं निमित्तम्। तस्मात् पूर्वविज्ञानं बलवत्। एवं प्राप्ते ब्रूमः।
> (सिद्धान्तः) पौर्वापर्ये पूर्वदौर्बल्यं स्यात्। .... तस्मात्
> परबलीयस्त्वमिति न्याय्यमेवेति" इति।
> टुप्टीकायाम् इदमुक्तं भाट्टपादैः - "पौर्वापर्योत्पत्तावपि निमित्तयोः
> तन्नैमित्तिकप्राप्तौ पूर्वेण न्यायेन विकल्पः इति पूर्वः पक्षः। अत्र
> पूर्वबलीयस्त्वेन पक्षान्तरम्। ततः तद्दौर्बल्यात् परबलीयस्त्वमिति
> सिद्धान्तः" इति।
> अयं न्यायः अपच्छेदन्यायः परप्राबल्यन्यायः। ज्योतिष्टोमे यागे क्रमेणापच्छेदे
> उत्तरकालीनापच्छेदनिमित्तकं प्रायश्चित्तं कर्तव्यम्, न तु
> पूर्वकालीनापच्छेदनिम्मित्तकं प्रायश्चित्तम्।
> वाक्यद्वयात् द्वे ज्ञाने अन्योन्यनिरपेक्षे एव उत्पद्येते। उत्पद्यमानं
> उत्तरकालीनं परज्ञानं पूर्वज्ञानं बाधित्वैव प्रादुर्भवति। पूर्वज्ञाने एवं
> चोत्तरकाले बाधिते सति, न तत् परज्ञानस्य बाधको भवितुमर्हति। परज्ञानं
> अबाधितमेव वर्तते यतः न च परज्ञानसय अन्यं बाधकमुपलभ्यते।
> अथ अद्वैतवेदान्ते अपच्छेदन्यायस्य आनन्दबोधाचार्यकृतप्रमाणमालाग्रन्थरत्ने
> प्रयोगः। प्रत्यक्षप्रामाणजनितद्वैतसत्यत्वस्य ज्ञानं पूर्वज्ञानं उत्तरकालीनं
> "नेह नानास्ति किञ्चन"
> इत्याद्यद्वितीयब्रह्मप्रतिपादकवेदान्तवाक्यजनितद्वैतमिथ्यात्वस्य ज्ञानं
> परज्ञानम्। अत्र द्वैतसत्यत्वस्य पूर्वज्ञानं द्वैतमिथ्यात्वस्य दोषरहितेन
> परज्ञानेन बाधितं भवति, अपच्छेदन्यायात्।
>
> आनन्द:
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>
More information about the Advaita-l mailing list