[Advaita-l] vAtApi gaNapatiM bhaje - 1
Anand Hudli
anandhudli at hotmail.com
Tue Sep 6 11:34:55 CDT 2011
ध्याये स्थिरेण चित्तेन गणेशं सर्वसिद्धिदम्।
बुद्धिप्रकाशकं पूर्णं योगिनां हृदि संस्थितम्॥
जितं तेनाखिलं नानाब्रह्मवर्णनवर्णितम्।
नानाजगत्समूहं वै गणेशेनोभयं कृतम्॥
भक्तसंरक्षणार्थाय निर्गुणः सगुणस्तु यः।
नानावतारवान्सोऽपि नानाभेदधरो बभौ॥
तस्मै नमो गणेशाय नरकुञ्जररूपिणे।
सगुणो नररूपो यो निर्गुणो गजवक्त्रकः॥
नमः शिवाय शान्ताय विष्णवे प्रभविष्णवे।
सूर्याय शक्तये चैव चतुर्धा ते विभागिने॥
(मुद्गलपुराणम्)
आस्तिका ईप्सितार्थसिद्धये धर्ममार्गेण कर्माण्यनुष्ठास्यन्तो देवताराधनादिषु
प्रवर्तन्ते। उपासका विभिन्नसम्प्रदायाननुसरन्तोऽद्वितीयब्रह्माणं बह्वाकृत्या
बहुनाम्ना चोपासते। साकारोपासना धर्मस्य प्रधानाङ्गम्। वेदकालादेव
इन्द्रादिदेवान् ब्रह्मणः प्रतीकमिति पूजयन्ति स्म। प्रपञ्चस्य सर्वाणि वस्तूनि
केवलं ब्रह्मणो नामरूपयुक्ता उपाधयः परन्तु ब्रह्मणोऽभिन्नानि इति तेषां भावना।
अत्र "सर्वं खल्विदं ब्रह्म", "नेह नानास्ति किञ्चन", इत्यादिश्रुतयः प्रमाणम्।
"साधकानां हितार्थाय ब्रह्मणो रूपकल्पना" इति सूक्तेः यथाभिरुचि
देवतामूर्तिमाराध्य सगुणोपासनया निर्गुणं निराकारं ब्रह्माणमेव भजन्ते साधकाः।
तथा च भगवतोदितं -
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥ इति।
तादृशासु देवतासु विस्मयकारक आदिपूज्यो गणेश:। भक्तास्तं देवं गणपतिः गजाननः
लम्बोदरः हेरम्बः एकदन्तः इत्याद्यनेकनामभिः पूजयन्ति। ये तमेव देवं
ब्रह्माभिन्नं मन्वानाः - "त्वमेव प्रत्यक्षं तत्वमसि" इति, "त्वमेव सर्वं
खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यम्", इति च समुपासते ते गाणपत्या
इत्यभिधीयन्ते। अयं गणेशः ऋग्वेदे गणपति: तथा ब्रह्मणस्पतिः इत्येवं स्तुतः।
यथा -
॥ ऋषिः गृत्समदः देवता ब्रह्मणस्पतिः छन्दः जगती ॥
गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ २.२३.१॥
॥ऋषिः नभः प्रभेदनः वैरुपः देवता इन्द्रः छन्दः त्रिष्टुप्॥
नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम्।
न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च॥१०.११२.९॥
मुत्तुस्वामिदीक्षितः स्वीयकीर्तने - "वातापिगणपतिं भजे" इति गणपतिं स्तौति।
बादामि नाम कर्णाटकदेशस्य नगरी वातापि इति न केवलं चालुक्यवंशराजधानी आसीत्
अपितु वातापिनगरीयं गाणपत्यानां आवासस्थानमासीदिति केचिद् अभिप्रयन्ति।
पल्लवानां राज्यनिर्वहणकाले वातापिगणपतेः मूर्ति: द्रविडदेशं आनीता इत्यपि
केचिद् विमर्शका वदन्ति। गाणपत्यमतं शाक्तमतमिव वामाचारदुराचारैः कलुषितसमये
श्रीशङ्करभगवत्पादास्तत्र नावीन्यं सम्पाद्य गाणपत्यपथामपि अङ्गीकृत्य
षण्मतेष्वेकत्वं तस्मिन्परिगणय्य गणपतये पञ्चायतनपूजादिषु स्थानमकल्पयन्।
अधुनापि महाराष्ट्रदेशे एते गाणपत्याः प्रभावशालिनो विराजन्ते।
गणपतिरेव परं ब्रह्म स एव सर्वोत्तमः - इत्यनेकपुराणोपपुराणेषु प्रतिपादितं
तत्त्वमुपलभ्यते। गणपतेः प्रादुर्भावः महिमा पूजानुष्ठानादीनां
विधिविधानफलादीनि प्रायः दशसु पुराणेषूपलभ्यन्ते।
शिवपुराणे अष्टादशाध्यायात्मिकं गणेशाख्यानं विद्यते। पार्वत्या स्वदेहजेन मलेन
सृष्टोऽयं बालको मातुः स्नानगृहद्वारे नियोजितः। परमेश्वरेण तस्य मस्तकं छिन्नं
परन्तु पार्वत्या प्रार्थितो गजमस्तकमवाप इत्येवं कथा सर्वत्र प्रसिद्धा
वर्तते। शिवानुग्रहेण स शिवगणाधिपत्यं प्राप्य गणपतिः सम्पन्नः। माता पार्वती
तस्याग्रपूजामनुजग्राह। विनायकनाम्नापि प्रसिद्धिमवाप यतः शिवसम्बन्धेन विना
अयं पार्वत्यां पुत्रत्वेन जात इति वामनपुराणे निरूपितम्।
लिङ्गपुराणे तु विभिन्नतया गणेशकथा उपवर्णिता। असुरा: शङ्करं प्रतोष्य अजेया
अभवन्। तेषां संहाराय देवैः प्रार्थितः शिवः पार्वत्यां गणेशरूपेण
प्रविष्टवान्। जगन्माता पार्वती त्रिशूलपाशधरं गजमुखं पुत्रमजनयत्। तस्य
जातकर्मादिक्रिया: शिव: कृत्वा विघ्नेश्वर इति नाम चकार।
(सशेषमिदं लेखनम्)
आनन्दः
More information about the Advaita-l mailing list