[Advaita-l] ’अन्धगोलाङ्गूलन्यायः’
V Subrahmanian
v.subrahmanian at gmail.com
Mon Oct 8 05:47:02 CDT 2012
श्रीगुरुभ्यो नमः
’तन्निष्ठस्य मोक्षोपदेशात्’ (१.१.५.७) इत्यस्य ब्रह्मसूत्रस्य शांकरभाष्ये
एवं दृश्यते -
// यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं
शास्त्रं स *श्रद्धधानतयान्धगोलाङ्गूलन्यायेन* तदात्मदृष्टिं न
परित्यजेत्, तद्व्यतिरिक्तं
चात्मानं न प्रतिपद्येत, तथा सति पुरुषार्थाद्विहन्येतानर्थं न ऋच्छेत् । //
इति ।
तत्र व्याख्याने भाष्यरत्नप्रभाग्रन्थे न्यायोऽयं विव्रियते -
कश्चित्किल दुष्टात्मा महारण्यमार्गे पतितमन्धं स्वबन्धुनगरं जिगमिषुं बभाषे,
किमत्रायुष्मता दुःखितेन स्थीयत इति । स चान्धः सुखां वाणीमाकर्ण्य तमाप्तं
मत्वोवाच, अहो मद्भागधेयम्, यदत्र भवन्मां दीनं स्वाभीष्टनगरप्राप्त्यसमर्थं
भाषत इति । स च विप्रलिप्सुः दुष्टगोयुवानमानीय तदीयलाङ्गूलमन्धं ग्राहयामास ।
उपदिदेश च एनमन्धं, एष गोयुवा त्वां नगरं नेष्यति, मा त्यज लाङ्गूलमिति । स
चान्धः श्रद्धालुतया तदत्यजन् स्वाभीष्टमप्राप्य अनर्थपरंपरां प्राप्तः । तेन
न्यायेन इत्यर्थः । इति ।
इति सविनयम्
सुब्रह्मण्य़शर्मा
More information about the Advaita-l mailing list