[Advaita-l] akhaNDAkAra vritti

Siva Senani Nori sivasenani at yahoo.com
Sun Jan 13 00:00:13 CST 2013


From: vinayaka ns <brahmavadin at gmail.com>
>Sent: Saturday, 12 January 2013 5:22 PM
>Subject: [Advaita-l] akhaNDAkAra vritti
>
>Namaste,
>
>Long time back I had posted a query on akhaNDAkAra vritti and had
>received a reply from a member, the relevant portion of which is as
>under:
>
>
>Source:http://article.gmane.org/gmane.culture.religion.advaita/165/match=j+nAnAbhyAsAdvinirmalam
>
>My question is, this explanation accepted by all the schools of
>advaita? Can one get jnAna without this akhaNDAkAra vritti? The views
>of the members is solicited.
 
Pranams
What follows below does not directly answer the question raised, but is related to the topic. I am posting this with the hope that some might find it useful. In Mar 2011, Osmania University organised a conference on Advaita during which Br. Sri. Goda Venkateswara Sastri spoke on Vivarana and Bhamati schools. Given below are extracts from the transcript of his lecture, relevant to akhaNDAkAravritti - 
 
Regards
N. Siva Senani
 
(PS: I supplied the heading and reference numbers to Sruti vAkyas along with transcribing the lecture. Any errors are mostly due to my incompetence, rather than being attributable to the learned Sastriji. If somebody wants the full transcript, kindly mail me in private. OU is bringing out a journal including this piece and it would be bad form if the entire lecture is published in a public forum before the journal comes out; on the other hand, private distribution for scholarly purposes is usually okay.) 

८. अखण्डाकारवृत्तिविषयः - उपहितं ब्रह्म वा शुद्धं ब्रह्म वेति
अनन्तरमखण्डाकारवृत्तेः विषयः शुद्धं ब्रह्म वा उतोपहितं ब्रह्म वेत्यस्मिन् विषयेऽपि मतभेदोऽस्ति। भामतीकाराणामभिप्राय इत्थमस्ति। यत् शुद्धं ब्रह्म न दृश्यम् "यत्तदद्रेश्यं" (मुण्डकोपनिषत् 1.1.6) इति श्रुतेः। किन्त्वुपहितमेव ब्रह्म दृश्यं न हि वृत्तिदशायामनुपहितं तद्भवति। वृत्तिदशायां वृत्तिर्ह्यस्ति न तु वृत्तिरूपोपाधेयं, तत्रानुपहितमिति कथं वक्तुं
 शक्यते, उपहितमेव। तर्हि शु्द्धसिद्धिः कथं भवति शुद्धं कोन्वाप्नोति चेत्, शु्द्धसिद्धिः कथं भवतीति चेत्, स्वत एव तस्य प्रकाशत्वेन सिद्धत्वात्। तदाप्यज्ञाते धर्मणि कस्यचित् धर्मस्य विधातुं वा निषेद्धुं वाशक्यत्वेन शुद्धे दृश्यत्वं निषेधता शुद्धस्य ज्ञेयत्वमवश्यं स्वीकर्तव्यम्। भवद्भिः तत्र शुद्धे कश्चित् धर्मोऽपि विधातुं न शक्यत इत्यङ्गीकृतं वर्तते,
 तर्हि शुद्धे दृश्यत्वं नास्तीति कथमुच्यत इति चेत् सः वदति - स्वप्रकाशत्वेन स्वतःसिद्धेः शुद्धे श्रुत्या दृश्यादिनिषेधः क्रियत इति यद्युच्येत, तर्ह्युच्यते शुद्धं स्वप्रकाशमिति शब्दजन्यविशिष्टवृत्तौ शुद्धाप्रकाशे इति शुद्धं न प्रकाशेत, तर्हि तस्य स्वप्रकाशत्वासिद्धिरिति चेत्, न, वृत्तिकारे वृत्तिरूपेण धर्मस्य शुद्धत्वासम्भवात्, एते वदन्ति। शुद्धस्य
 वृत्तिविषयत्वं न सम्भवति, अतः शुद्धं स्वप्रकाशमिति वाक्यस्यास्माभिरन्योऽर्थः करणीयः। अतः किमुच्यते लक्षणयाशुद्धत्वमस्त्वप्रकाशत्वव्यापकमित्यर्थः क्रियते। तेन अशुद्धत्वव्यावृत्या शुद्धे स्वप्रकाशता पर्यवस्यतीति भावः। उपहितस्य तु मिथ्यात्वं स्वीक्रियते। एतस्मिन्मते ज्ञानाज्ञनयोः समानविषयत्वं कथं भवति? यत्राज्ञानमस्ति तत्र यदि ज्ञानं जायेत तर्हि
 तेन ज्ञानेन तादृशाज्ञानं नष्टं भवतीति लोकेऽनुभूतः। तादृशज्ञानाज्ञानयोः समानविषयकत्वं समानाश्रयत्वमप्यावश्यकं भवति। यद्यत्र तावज्जीवविषयकत्वं जीवाश्रितत्वं ब्रह्मविषयकत्त्वं इत्युच्यते चेत् कथं तर्हि नाशनाशकभावः भवतीति शङ्का भवति। तर्ह्येते वदन्ति समानविषयकत्वं च स्वोपहितान्याविषयकत्वरूपं तत् शुद्धे ब्रह्मण्यपि तत्र विशुद्धे उपहिते ब्रह्मण्यपि
 तत्र ज्ञानाज्ञानयोरुभयोरपि तत्र उपहितान्याविषयितत्त्वरूपं वर्तते। उपहितविषयकत्वमेव ज्ञानाज्ञानयोः उपहितान्याविषयकत्वं वर्तत इति कृत्वा सामानाधिकरण्यं सङ्गच्छते इति वदन्ति।

विवरणे तु सुलभो मार्गः। दृश्यत्वं शुद्धे ब्रह्मणि वृत्तिव्याप्यत्वरूपेणैव तैः स्वीकृतं वर्तते। तादृशदृश्यत्वमेतन्मते शब्दजन्यवृत्तिविषयत्वमेव। शब्दजन्य-वृत्तिविषयत्वमस्तु, शब्द-अजन्यवृत्तिविषयत्वं ब्रह्मणि नास्ति। अन्यथा शशमिषानं पृच्छम् इत्यादिशब्दजन्यवृत्तिविषये शुद्धे व्यभिचारस्य दुरुद्धरत्वात्। एवं शुद्धे
 वेदान्तजन्याखण्डाकारवृत्तिविषयत्वस्वीकारेऽपि तत्र व्यभिचारो नास्ति। तुच्छशुद्धयोः शब्दाजन्यवृत्तिविषयत्वानद्यतत्वात् ज्ञानाज्ञानयोरुभयोः शुद्धब्रह्मैव विषयः। अतो ज्ञानस्यापि विषयः शुद्धब्रह्म अज्ञानस्यापि विषयः शुद्धब्रह्म तदिदं निवृतिनिवर्तकभावः भवत्येव इति। केवलं निर्गुणः इति श्रुत्या परमार्थतः धर्म निषिध्यते अन्यथा
 उपहितब्रह्म-तादात्म्यस्य शुद्धे अवश्यं वाच्यत्वेन श्रुतिबाधापत्तेः स्वप्रकाशेऽपि शुद्धे ब्रह्मणि कल्पिताज्ञाननिवृत्त्यर्थं वृत्तिविषयत्वस्योक्तत्वाच्च शुद्धमपि ब्रह्म वृत्तिविषयः। अपि च न स्वप्रकाशे चिदंशे अज्ञानं किन्तु पूर्णानन्दांशे एव। चिदंशे अज्ञानं नास्ति। अज्ञानं ब्रह्मावृणोतीत्यस्य कोऽर्थः? तस्य पूर्णानन्दांशः अस्माकं न प्रतीयते
 एतावदेव सदंशः, चिदंशः तत्र नावृतः - वयमनुभवामः तत् - इति पूर्णानन्दांश एव तत्र तथा च तस्य शुद्धत्वमपि वृत्तिविषयत्वमावश्यकं। तदुक्तं पञ्चदश्यां (7.90) फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम् । 
ब्रह्मण्यज्ञाननाशार्थं वृत्तिव्याप्यमेष्यते ।। इति।


More information about the Advaita-l mailing list