[Advaita-l] Which one is first in the creation sequence

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Sun Mar 2 17:21:28 CST 2014


​​
On Sun, Mar 2, 2014 at 11:40 PM, V Subrahmanian <v.subrahmanian at gmail.com>wrote:

> In the first volume of the book 'srIdakShiNAmUrtistotram' the topic of
> kAla, Time is dealt in very great detail with a number of citations and
> explanations (p.324 to 341).
>

Thanks for pointing to it.
I just turned pages and found that he has tried to collect all views which
can arise according to vedAntin-s.
Views of *shrI-madhusUdana *and *sUta-saMhitA*, both are collected by the
author.
​


>  kAla is मायात्मसंबन्धः that is, when there comes about a 'connection'
> (which, however, is AdhyAsika only)  between avidyA and Chit (Pure
> consciousness), there happens all that samsAra is and anything  happens in
> time. In the sUtasamhitA 1.8.20, etc. verses, the topic of kAla is
> discussed.  Swami Vidyaranya, in his commentary on these says, among many
> things, this:
>
> वक्ष्यति ह्युत्तरखण्डे - ’कालो मायात्मसंबन्धः सर्वसाधारणात्मकः’ इति
> ।...मायावदनादिरप्यसौ तदधीननिरूपणतया...
>

​As you provided some new resource, I checked *sUTa-saMhitA*. The
commentary of 1.2.22 mentions :
द्विविधो हि कालः परमः अपरमः च इति । शिवमायासम्बन्धरूपः परम इति वक्ष्यति हि
उत्तरखण्डे -
कालो मायात्मसम्बन्धः सर्व्वसाधारणात्मकः ।
इति ।

Translation :
kAla is of two types : supreme and other. The relation of shiva and mAyA is
supreme one as will be said in next part :
kAla is relation of mAyA and AtmA which is common to all.

However, as this view appears to be opposed to that of shrI madhusUdana's
view, so I'm taking time to talk to teach myself.
Here is the shloka 1.2.22 of shrI-sUta-saMhitA :
अनया देवदेवस्य शिवस्य परमात्मनः । उदितः परमः कालः तद्वशाः सर्व्वजन्तवः ॥
सोऽपि साक्षान्महादेवे कल्पितो मायया सदा । सर्व्वे काले विलीयन्ते न कालो
लीयते सदा ॥
कालो माया च तत्कार्य्यं शिवेनैवावृतं बुधाः । शिवः कालानवच्छिन्नः कालतत्त्वं
यथा तथा ॥
तथापि कालोऽसत्यत्वात् मायया सह लीयते । शिवो न विलयं याति द्विजाः
सत्यस्वभावतः ॥


सर्व्वे कालपराधीनाः न कालः कस्यचिद्वशे ॥
कालो मायात्मसम्बन्धात् सर्व्वसाधारणात्मकः । हिरण्यगर्भो भगवान्
प्रादुरासीत्प्रजापतिः ॥

I'm taking freedom to write in only saMskR^itaM to make myself easy :

अत्र श्रीविद्यारण्यैरुद्धृतपाठाद् ईषद्भेदो दृश्यते । समर्थयितुं शक्यश्च सः
। तथा हि सर्व्वेषां कालपराधीनत्वं तदैवोपपद्यते यदा कालस्य सर्व्वैः सह
सम्बन्धे हेतुविशेषः स्यात् । स च हेतुः कालस्य मायात्मसम्बन्धप्रयोज्यत्वमेव
। तथा च कालस्य मायात्मसम्बन्धात्मकत्वास्वीकारेऽपि न दोषः ।
अथवा - कालो माया , आत्मसम्बन्धात् सर्व्वसाधारणात्मकः इतिच्छेदोऽन्वयश्चास्तु
। अत्र साक्षादेव कालस्य मायात्वं सिद्धम् । आत्मसम्बन्धश्चाध्यासरूपः
प्रतिबिम्बरूपो वा , तद्बलात् = लब्धसत्ताकत्वात् प्रतिबिम्बयुक्तत्वाद् वा
अविद्यायाः सर्व्वजनकत्वं ततश्चोपादानत्वबलात् सर्व्वसाधारणत्वम् इत्यपि
उपपद्यते । अनया परमात्मन उदित इत्यत्र तु प्रतिबिम्बप्राधान्येन कालस्य
निर्देशो द्रष्टव्यः ; अथवा अनया मायया परमात्मनः शुद्धस्य रूपविशेषः
कालात्मको जात इति व्याख्येयम् ।

अस्तु यथाकथञ्चिदपि ।
अत्र कस्यचिद्विदुषः टिप्पण्य उपलभ्यन्ते यः सम्प्रदायवित्प्रतीयते । तथा हि
तेन अनया देवदेवस्येतिश्लोके -
सोऽपि मायैव , मायेतरसम्बन्धाभ्युपगमेऽनवस्थानात् ।
इति कालस्याविद्यात्मत्वप्रतिपादकं टिप्पणमकारि ।
अथापि न श्रीविद्यारण्यानां विरोधः तेन कृतः मायात्मसम्बन्ध
इतिपाठमादायैवाग्रे व्याख्यानात् । उपलब्धपुस्तकेषु तु मायात्मसम्बन्धात्
इत्येव पाठः ।

तथा च इदमायातम् ।
परमस्य कालस्य मायात्मसम्बन्धात्मकत्वमिष्टं सूतसंहितावाक्यात्
श्रीविद्यारण्यैः । स च मायात्मसम्बन्धो न मायाभिन्नः स्वीकर्त्तुं शक्यते ,
अनवस्थानात् (?) ।

अथापि सिद्धान्तबिन्दौ यदुक्तं -
दिक्कालौ तु अप्रामाणिकत्वात् नोक्तौ ।
 .........
कालस्त्वविद्यैव , तस्या एव सर्व्वाधारत्वात् इति ;
यच्च व्याख्यातं श्रीब्रह्मानन्दैः -
वस्तुतस्तु महाकाले मानाभावः , इदानीमिदम्
इत्यादिबुद्धेर्जन्यमात्ररूपखण्डकालमात्रविषयकत्वमेव ।
अयं साभासाविद्यारूपः ।
इति ;
तदाश्रित्येदं वक्तुं शक्यते यत्
वेदान्तिनां मते महाकालो न प्रामाणिकः पदार्थः ; ज्ञानमात्रस्य
अपरमकालविषयत्वेन , साक्षिभास्यस्यापि क्षणादिरूपत्वेन च तस्मिन्प्रमाणाभावात्
। सर्व्वाधारत्वरूपस्य तल्लक्षणस्य अविद्यायां सत्त्वेन तस्या एव
परमकालत्वौचित्याच्च । न हि अप्रामाणिकस्यापि स्वपक्षपातात्कल्पनं परीक्षकाणां
शोभते ।
न च उक्तसूतसंहिताप्रमाणादेव परमकालः स्वीकर्त्तव्य इति वाच्यम् । तत्सिद्धस्य
सर्व्वसाधारणत्वस्य सर्व्वपरिच्छेदकत्वस्य च अविद्यायामेवोपपत्तेः ।
न च सूतसंहिताबलात् मायात्मसम्बन्धत्वमेव युक्तं इति वाच्यम् । अनवस्थानात्
(?) ।
न च मायाकार्य्यत्वेन भाष्योक्तेन सूतसंहितासिद्धान्तबिन्द्वोर्विरोधः इति
वाच्यम् । मायाया अपि मायाप्रयुक्ताध्यासत्वस्वीकारेण मायाप्रयोज्यत्वस्य
स्वीकारेण मायानाशसमकालनाशस्योपपत्त्यापि भाष्योपपत्तेः मायाकार्य्यत्वं तत्र
मायाप्रयोज्यत्वसाधारणत्वात् । अन्यथा , जीवेशभेदादीनामनादीनां न
मायानाशनाश्यत्वं स्यात् । अतो न भाष्यविरोधः ।




*श्रीमल्ललितालालितः *www.lalitaalaalitah.com


More information about the Advaita-l mailing list