[Advaita-l] Which one is first in the creation sequence

H S Chandramouli hschandramouli at gmail.com
Thu Mar 6 01:15:14 CST 2014


Sri Srimallalitalaalitaji,

Is it possible to provide the answer in english ? I would be grateful.

Regards

chandramouli


2014-03-05 21:17 GMT+05:30 श्रीमल्ललितालालितः <
lalitaalaalitah at lalitaalaalitah.com>:

> ​​
> H:
> The words " mayopadhika Iswara " and " mayavishishta Iswara " are both used
> frequently in the literature on vedanta. Many times in the same work
> itself. Both refer to Ishwara only contextually in all the places.
>
> But while explaining the concept of Iswara they consider maya ( avidya ) as
> visheshana to Chaitanya from the standpoint of Iswara and same maya (
> avidya ) as upadhi from the standpoint of Chaitanya.
>
> This corresponds to antahkarana as being visheshana to Chaitanya from the
> standpoint of jiva while the same antahkarana is an upadhi to Chaitanya
> from the standpoint of Sakshi ( kutastha ) .
>
> What is the word corresponding to Sakshi at the level of maya as described
> above.
>
> L:
> ईश्वरसाक्षीपदमेव वेदान्तपरिभाषाकारेण ईश्वरसम्बन्धिप्रत्यक्षस्य
> मायोपहितचैतन्यरूपस्य निरूपणाय प्रयुक्तम् । तथा हि तद्वाक्यानि :
>
> *तदुपहितं चैतन्यम् ईश्वरसाक्षी । तच्च अनादि , तदुपाधेर्मायाया अनादित्वात्
> ।*
>
> *मायावच्छिन्नं चैतन्यञ्च परमेश्वरः ।*
>
> *मायाया विशेषणत्वे ईश्वरत्वम् उपाधित्वे साक्षित्वम् इति
> ईश्वरसाक्षित्वयोर्भेदः न तु धर्म्मिणोरीश्वरतत्साक्षिणोः ।*
>
> इति ।
>
> तथा च एकस्यैव धर्म्मिणः चैतन्यस्य ईश्वरसाक्षित्वेन व्यवहारो भवति मायाया
> उपाधित्वेन ग्रहणे इति वेदान्तपरिभाषाकारस्य रीतिः । ईश्वरस्य
> ईश्वरसाक्षिणश्चाभेद एव , एकस्यैव चैतन्यस्य तत्तत्सञ्ज्ञकत्वात् ।
>
> अत्र विशेषणोपाध्योर्भेदस्तदुक्तः स्मर्त्तव्यः । तथा हि
>
> *विशेषणञ्च कार्य्यान्वयि वर्त्तमानं व्यावर्त्तकम् उपाधिश्च कार्य्यानन्वयी
> व्यावर्त्तको वर्त्तमानश्च ।*
>
> इति ।
>
> इत्थं यदा जगत्कारणत्वेन चैतन्यस्य निरूपणं क्रियते तदा मायाया विशेषणत्वेन
> तस्येश्वरपदवाच्यत्वम् । यदा तु ईश्वरीयज्ञानत्वेन तस्यैव चैतन्यस्य निरूपणं
> क्रियते तदा मायाया जडत्वेन कार्य्यानन्वयित्वात् तस्यैव चैतन्यस्य ईश्वरपदभाज
> ईश्वरसाक्षित्वेन ईश्वरीयप्रत्यक्षत्वेन व्यवहारो भवति ।
>
>
> H:
>
> Is it Bimbachaitanya?
>
>
> L:
>
> अत एव यदा बिम्बचैतन्यस्येश्वरत्वं तदा तस्यैव बिम्बस्यैव ईश्वरसाक्षित्वमपि
> इति ज्ञेयम् ।
>
> मायायाः परं बिम्बत्वप्रयोजिकायाः कार्य्यान्वयित्वं न वा इत्यादाय
> विशेषणत्वोपाधित्वे भवतः तदादाय च तस्य ईश्वरत्वसाक्षित्वव्यवहारौ ।
>
>
>
> H:
>
> But then it is equated with Iswara itself in above quote from the previous
> post.
>
>
> L:
>
> युक्तमेवोक्तं प्राक् इति इदानीमवगन्तुं शक्यते एव ।
>
>
> H:
>
> Is it that the same word Iswara should be understood contextually either as
> referring to Chaitanya with maya as upadhi or to "Iswara" with maya as
> visheshana to Chaitanya ?
>
>
> L:
>
> ईश्वरपदेनैव यद्यपि ईशतत्साक्षिणोर्निरूपणं कर्त्तुं शक्यते तथापि
> असाङ्कर्य्याय पृथक्पदव्यावहारः कार्य्यः । अन्यथा कार्य्यान्वयित्वतदभावौ
> निर्णीय तत्पदस्य किम्परत्वम् इति निर्णेयम् ।
>
>
>
>
>
>
>
> H:
> That is my question. The two terms mayavishishta and mayopadhika are both
> used to address Iswara.
>
>
> L:
>
> सत्यम् ।
>
>
> H:
>
> My doubt is how can the same Iswara have maya as his upadhi as well as be
> endowed with it ?
>
>
> L:
>
> तत्र विचार्य्यैव निर्णेयं यत् उपाधिपदेन विशेषणं विवक्षितं न वा ।
>
>
> H:
>
> After all Iswara is Chaitanya + maya.
>
> Upadhi cannot be part of the vastu itself.
>
>
> L:
>
> वस्तुत्वं तु शुद्धस्यैवास्मन्मते । तच्च निरवयवम् । अत एव युक्तमेवोक्तं
> स्यात् यदि एतदभिप्रेतं स्यात् ।
>
> न च तथा विवक्षितं मिथ्याभूतस्येश्वरस्यैवात्र विचार्य्यत्वात् । अत एव
> अयुक्तमिदं वचः ।
>
> अथापि ईश्वरस्य विशिष्टचैतन्यत्वेन सांशत्वमभ्युपेयमेव ।
>
> किञ्च भवतैवोक्तं ‘Iswara = Chaitanya + maya’ इति अतः सांशत्वमेवेश्वरस्य ।
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list