[Advaita-l] advaitasiddhi discussion: प्रत्यक्षस्य उपजीव्यत्वेन प्राबल्यविचारः

Anand Hudli anandhudli at hotmail.com
Sun Nov 2 11:30:48 CST 2014


I had some time during the weekend to write a summary of the discussion on
upjIvyatva (being the basis) of Perception with regards to Inference
(anumAna) and Verbal Testimony (shabda/Agama pramANa). When I started
writing on the advaitasiddhi many years ago, I was more inclined to writing
translations in English. However, today there are a wide variety of
resources and tools, both online and offline, for learning Sanskrit. It is
no longer difficult to learn to read and understand Sanskrit. Especially,
people who have a good grasp of an Indian language that uses a fair amount
of "tatsama" and "tadbhava" words (words either directly borrowed from
Sanskrit or of Sanskrit origin, but modified), will find learning Sanskrit
easier. Many Sanskritists tell us that we should not be reading Sanskrit
works along with translations in other languages. More significantly,
Sringeri Shri Bharati Tirtha Svaminah , in one of his Sanskrit speeches,
recommends that we not settle for translations of Sanskrit treatises.
Please see: http://tinyurl.com/q4y5wg6
Especially note the following words of the AchArya:
बहवो लोकाः "वयं अनुवादग्रन्थान् पठामः, तेभ्य एव वयं सनातनधर्मस्य तत्त्वं
ज्ञातुं प्रभवामः" इति कथयेयुः। तथापि अनुवादग्रन्थेभ्यः यथावत् तत्त्वं
अवबोद्धुं नैव शक्यते। तादृशाः सन्ति विषयाः ये भाषान्तरैः अनुवदितुं न
शक्यन्ते।... अतः यदि कश्चित् धर्मतत्त्वं जिज्ञासते, भारतीयां संस्कृतिं
अधिजिगमिषति, तेन संस्कृतभाषा अवश्यम् अवगन्तव्या, अभ्यसनीया।

I have presented below the first part of the summary of the advaita-siddhi
topic, प्रत्यक्षस्य उपजीव्यत्वेन प्राबल्यविचारः, written in simplified
Sanskrit. For example, I have not followed the rule to form a Sandhi
between words wherever possible. I have also avoided forming compound words
in many cases. There are parts of the discussion that do require a basic
knowledge of nyAya concepts. These may be found in the elementary work on
nyAya, the tarka-saMgraha or at:
http://www.advaitasiddhi.org/part3
http://www.advaitasiddhi.org/part4

I would be grateful if any mistakes are pointed out, so I can correct them
before publishing this on the advaitasiddhi website.

                           श्रीगुरुभ्यो नमः॥

"सन् घटः" इति प्रत्यक्षज्ञानं घटमिथ्यात्वानुमानस्य बाधकं तदैव भवितुमर्हति
यदा तस्य प्रत्यक्षज्ञानस्य प्रामाण्यं पूर्वं हि निश्चितं स्यात्। किन्तु
प्रकृते प्रत्यक्षज्ञानस्य विषयस्य (घटस्य) बाधः "नेह नानास्ति किञ्चन"
इत्यादिश्रुतिभिः मिथ्यात्वानुमानेन च। अतः "सन् घटः" इति प्रत्यक्षज्ञानस्य
प्रामाण्यं पूर्वनिश्चितं नास्ति।

अथ द्वैतवादिभिरयम् आक्षेपः प्रस्तूयते - प्रत्यक्षस्य उपजीव्यत्वेन
प्राबल्यं। किमिदं उपजीव्यत्वम्? अनुमान-आगमयोः सर्वाणां अपेक्षितार्थानां
ग्राहकं प्रत्यक्षं अपरोक्षात् परोक्षात् वा। "पर्वतो वह्निमान् धूमात्"
इत्यत्र पर्वतः धूमश्च प्रत्यक्षेण गृह्येते, प्रत्यक्षजन्यज्ञानेनैव वह्नेः
अनुमानं साधयितुं शक्यते। एवमेव आगमोक्तशब्दाः अपि प्रत्यक्षेण गृह्यन्ते। अतः
प्रत्यक्षस्य उपजीव्यत्वं अनुमान-आगमयोः उपजीवकत्वं च।

अद्वैतसिद्धिकारैः पूजनीयैः समाधानम् उच्यते - अनुमानं आगमश्च प्रत्यक्षस्य
यद् रूपं उपजीव्यते तेन रूपेण न विरुध्येते, तद् रूपं न बाध्यते च। किं
बाध्यते? प्रत्यक्षस्य व्यावहारिकरूपं वयं स्वीकुर्मः, प्रत्यक्षस्य
पारमार्थिकरूपं निराकुर्मः। अतः यद् रूपं उपजीव्यं तन् न बाध्यते, यद् रूपं
बाध्यते तन् न उपजीव्यते अनुमानागमाभ्याम्। दृष्टान्तः-  धूमज्ञानस्य
(प्रत्यक्षस्य) तात्विकरूपं (पारमार्थिकरूपं)  वह्नेरनुमाने कारणेषु न
अपेक्ष्यते।

अत एवोक्तं खण्डनकारै:- पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ।
                             हेतुत्वबहिर्भूतसत्त्वासत्त्वकथा वृथा॥ इति।
अनुमानस्य हेतुः पूर्वावधारितव्याप्तिज्ञानमिति अस्माभिः वेदान्तिभिरपि
अङ्गीकृतं यथा युष्माभिः नैयायिकैः। हेतुत्वे अनुपयुक्तस्य
प्रत्यक्षसत्यत्वस्य कथा (वादविवादः) व्यर्था।

किंच यदि केवलं अपेक्षितग्राहकः उपजीव्यः भवितुम् अर्हति बाधकः भवितुम् अर्हति
च  तर्हि शुक्तौ इदं रजतमिति भ्रमस्य बाधकं नेदं रजतमिति ज्ञानं कथं उदीयात्
(उत्पद्येत)? तत्र इदं रजतमिति भ्रमः प्रतियोगिनः रजतस्य ग्राहक:। अतः नेदं
रजतमिति ज्ञानस्य उपजीव्यः इदं रजतमिति भ्रमः। किन्तु इदं रजतमिति भ्रमः नेदं
रजतमिति ज्ञानेन न बाध्यते यतः उपजीव्यः उपजीवकेन न बाध्यते।

अथ द्वैतवादिभिरुच्यते- नेदं रजतमिति बाधेन प्रतियोगिसमर्पकत्वेन इदं रजतमिति
ज्ञानं अवश्यम् अपेक्ष्यते, किन्तु इदं रजतमिति ज्ञानस्य प्रामाण्यं
(यथार्थत्वं) न अपेक्ष्यते। प्रतियोगिज्ञानमात्राद् अभावज्ञानं जायते, न
प्रतियोगिप्रमाज्ञानात्। अतः इदं रजतमिति ज्ञानस्य पक्षेऽपि तद्विरुद्धविषयकं
ज्ञानं उदीयात्।

अद्वैतसिद्धिकारैरुच्यते- जगन्मिथ्यात्वविषयेऽपि एवमेव! यद्यद् दृश्यं तत् तन्
मिथ्याभूतं दृष्टं यथा शुक्तिरजतमिति एतद् अनुमानं प्रत्यक्षज्ञानमात्रात्
जायते, नहि अत्र प्रत्यक्षज्ञानप्रमात्वस्य अपेक्षा।

द्वैतवादिभिरुच्यते- यस्य ज्ञानस्य प्रामाण्यं स्वरूपसिद्ध्यर्थं
अपवादनिरासार्थं च यस्य ज्ञानस्य प्रामाण्यं अवलम्बते तस्य ज्ञानस्य उपजीव्यं
तत् ज्ञानम्। दृष्टान्तः- स्मृतेरनुभवः उपजीव्यः। रजतभ्रमः न उपजीव्यः यतः
नेदं रजतमिति ज्ञानस्य प्रामाण्यं इदं रजतमिति ज्ञानस्य प्रामाण्यं न अवलम्बते।

अद्वैतसिद्धिकारैरुच्यते- इति चेत्, तर्हि व्याप्तिरपि अनुमानस्य उपजीव्यः न
स्यात् यतः लिङ्गाभासेनापि वह्निमति पक्षे वह्नेः प्रमात्मकं अनुमानं
उत्पद्यते।  दृष्टान्त - वह्निमति पर्वते नीहारदर्शनात् (न तु धूमदर्शनात्)
वह्नेः प्रमात्मकं अनुमानं उत्पद्यते।

द्वैतवादिभिरुच्यते- येन विना यस्योत्थानं नास्ति तत् तस्य उपजीव्यमित्येव
वक्तव्यम्। अवश्यम् रजताभावज्ञानस्य उपजीव्यं शुक्तिरजतज्ञानं, किन्तु तत्र
उपजीव्यस्य प्राबल्यं नास्ति। उपजीव्यत्वमात्रेण किञ्चित् ज्ञानं न प्राबल्यं
भवितुम् अर्हति, किन्तु परीक्षिततया। का इयं परीक्षा?
सजातीयविजातीयसंवादविसंवादाभावरूपा। गौडब्रह्मानन्दीकारान्
(लघुचन्द्रिकाकारान्) अनुसृत्य विशदीक्रियते- सजातीयस्य ज्ञानान्तरस्य
विजातीयस्य प्रवृत्त्यादेः अबाधितविषयकत्वेन निश्चितस्य संवादः
समानविषयकत्वम्, विसंवादाभावः तयोः विरुद्धार्थग्राहित्वस्य अभावः। अर्थात्
सजातीयप्रमाणानां संवादः विजातीयप्रमाणानां विसंवादाभावः च। शुक्तिरजतभ्रमे
ज्ञानान्तरस्य समानविषयकत्वं नास्ति, प्रवृत्तेः अबाधितविषयकत्वमपि नास्ति यतः
पुरोवर्तिनः तद्रजतस्य उत्थापनक्रियायां बाधितो भवति। अतः रजतभ्रमस्य
 उपजीव्यत्वे सति अपि तद्भ्रमस्य न प्राबल्यम्। प्रकृते प्रत्यक्षस्य
परीक्षिततया प्राबल्यं अस्त्येव। "सन् घटः" इति ज्ञात्वा प्रवृत्तपुरुषस्य
घटानयनादौ प्रवृत्त्या घटलाभो भवति, तत्प्रत्यक्षज्ञानं
दूरत्वादिदोषनिर्मुक्तमपि। तस्मात् प्रत्यक्षस्य
सजातीयविजातीयसंवादविसंवादाभावौ सिद्धौ, परीक्षितता अपि सिद्धा।

अद्वैतसिद्धिकारैरुच्यते - परीक्षा नाम प्रवृत्त्या संवादः विसंवादाभावः
दोषाभावश्च। अनया परीक्षया स्वसमानदेशे स्वसमानकाले स्थितस्य विषयस्यैव
अबाध्यत्वरूपं प्रामाण्यं साध्यते, यथा हेतुना धूमेन स्वसमानदेशे स्वसमानकाले
एव वह्निः साध्यते। "सन् घटः" इति प्रत्यक्षज्ञानस्य विषयः (घटः) परीक्षायाः
देशे काले च अबाधितः, किन्तु देशान्तरे कालान्तरे वा विषयस्य (घटस्य)
अबाध्यत्वं न साध्यते। तस्मात्, परीक्षितप्रमाविषये केवलं व्यवहारकाले
देहात्मैक्यं स्वीकृत्य अबाध्यत्वं व्यवस्थापितं भवति। एवं सति
अनुमानागमाभ्यां व्यवस्थापितः तादृशस्य प्रमाविषयस्य अत्यन्त-अबाध्यत्व-अभाव:
कथं वार्यते? अतः प्रमाण-प्रमाण-आभास-व्यवस्था जीवेशभेदश्च व्यावहारिकं सत्यं,
न पारमार्थिकं सत्यं, सर्वं जगन्मिथ्येति।

Anand


More information about the Advaita-l mailing list