[Advaita-l] अद्वैतमते उपादाननिमित्तकारणलक्षणे

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Thu Nov 5 01:09:39 CST 2015


१.  अद्वैतानुसारि निमित्तकारणलक्षणम् उपादानकारणलक्षणञ्च किम् ।

उपादानकारणभिन्नत्वं निमित्तकारणत्वम् इति धर्म्मिभेदघटिते लक्षण उक्ते
अभिन्ननिमित्तोपादानस्थले गगनघटसंयोगब्रह्मादिष्वव्याप्तिः स्यात् । अत एव
उपादानकारणत्वभिन्नकारणत्वं निमित्तकारणत्वम् इति धर्म्मप्रतियोगिकभेदघटितमेव
लक्षणं वक्तव्यम् ।

उपादानकारणत्वञ्च स्वाभिन्नकार्य्यजनकत्वम् ।
अत्राभिन्नत्वं न सर्वथा किन्तु भेदाभाव एव । अत एव तत् तादात्म्ये
पर्य्यवस्यति ।


२. कुलालकपालसंयोगादीनांचेतनाचेतनानां निमित्तत्वं समानम् उत न ।

समानमेव ।

३. उपादानता द्रव्यस्यैवेति चेन्नियमो द्रव्यं किम् ।

नायं नियमो वेदान्तिनां , जगदुपादानस्यापि
ब्रह्मणोऽस्थूलमनण्वित्यादिश्रुत्या  परिमाणनिषेधे केवलो
निर्गुणश्चेतिश्रुत्या गुणनिषेधे च मीमांसकाभिमतपरिमाणवत्त्वलक्षणस्य
तार्किकाभिमतगुणवत्त्वलक्षणस्य च द्रव्यत्वस्यासम्भवात् ।
यदि च कथञ्चिद्विभुपरिमाणत्वमभ्युपगम्य तस्य द्रव्यत्वं सम्भाव्य
अभ्युपगम्येतायं नियमस्तदापि मीमांसकतार्किकयोर्नयेन लक्षणं
पूर्व्ववाक्यस्थमेव ।
न च उपादानतैव द्रव्यत्वं येनान्योन्याश्रयो भवेत् ; उभयोः
परस्पराघटितलक्षणस्योक्तत्वात् ।


केषाञ्चिदाचार्य्याणामिदं वाक्यं केषाञ्चिदुपकाराय स्यात् इत्यत्र प्रेषितम् ।

विचार्य्य दुष्टादुष्टत्वमस्य निर्णीयतां परीक्षकैः ।


*श्रीमल्ललितालालितः*www.lalitaalaalitah.com


More information about the Advaita-l mailing list