[Advaita-l] A Vishnu stuti authenticated by Shankara bhagavatpAda

R Krishnamoorthy srirudra at gmail.com
Sun Aug 14 09:25:28 CDT 2016


Dears
IMHO this discussion is just academic. Of course it is fruitful in the
sense we are able to read a number of verses from Mahabharath, Upanishds
and other literatures.
R. Krishnamootthy.
On 14 Aug 2016 18:30, "D Gayatri via Advaita-l" <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste
>
> Here, I will present another Vishnu stuthi in the Mahabharata that is
> authenticated by Shankara bhagavatpAda himself (and I am not talking
> of BG here). In this stuti, Vishnu is again praised as the vedAntic
> brahman and Shankara authenticates this in his BSB.
>
> The topic in BSB is that in the chhandogya upanishad, Vaisvanara
> should be taken to mean brahman and no other mundane meaning should be
> attached to it. Shankara gives some reasons why this should be so and
> in BSB 1.2.25, Shankara quotes the Mahabharata again -
>
> BSB 1.2.25 -
>
> इतश्च परमेश्वर एव वैश्वानरः ; यस्मात्परमेश्वरस्यैव ‘अग्निरास्यं
> द्यौर्मूर्धा’ इतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते — ‘यस्याग्निरास्यं
> द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै
> लोकात्मने नमः’ इति । तत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य
> वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थः ।
> इतिशब्दो हेत्वर्थे — यस्मादिदं गमकम्, तस्मादपि वैश्वानरः
> परमात्मैवेत्यर्थः । यद्यपि स्तुतिरियम् — ‘तस्मै लोकात्मने नमः’ इति,
> तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण सम्भवति
> । ‘द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे
> । दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता’
> इत्येवंजातीयका च स्मृतिरिहोदाहर्तव्या ॥ २५ ॥
>
> The above contains the following quotation from the Mahabharata -
>
> यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
> सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः
>
>
> This quotation is taken from Mbh: 12.47.44 in the critical edition and
> this is part of Bhishma's stuti to Krishna  -
>
>
> भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा | शरतल्पगतः कृष्णं प्रदध्यौ
> प्राञ्जलिः स्थितः ||७|| स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् |
> योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ||८|| कृताञ्जलिः
> शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् | भीष्मः परमधर्मात्मा
> वासुदेवमथास्तुवत् ||९|| आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् | तया
> व्याससमासिन्या प्रीयतां पुरुषोत्तमः ||१०|| शुचिः शुचिषदं हंसं तत्परः
> परमेष्ठिनम् | युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ||११||
> यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च | गुणभूतानि भूतेशे सूत्रे
> मणिगणा इव ||१२|| यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति |
> सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ||१३|| हरिं सहस्रशिरसं
> सहस्रचरणेक्षणम् | प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ||१४||
> अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् | गरीयसां गरिष्ठं च श्रेष्ठं च
> श्रेयसामपि ||१५|| यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च | गृणन्ति
> सत्यकर्माणं सत्यं सत्येषु सामसु ||१६|| चतुर्भिश्चतुरात्मानं सत्त्वस्थं
> सात्वतां पतिम् | यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ||१७|| यं
> देवं देवकी देवी वसुदेवादजीजनत् | भौमस्य ब्रह्मणो गुप्त्यै
> दीप्तमग्निमिवारणिः ||१८|| यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् |
> इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ||१९|| पुराणे पुरुषः
> प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु | क्षये सङ्कर्षणः
> प्रोक्तस्तमुपास्यमुपास्महे ||२०||
> अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् | अतिबुद्धीन्द्रियात्मानं तं
> प्रपद्ये प्रजापतिम् ||२१|| यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्
> | वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ||२२|| हिरण्यवर्णं यं
> गर्भमदितिर्दैत्यनाशनम् | एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः
> ||२३|| शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः | यश्च राजा
> द्विजातीनां तस्मै सोमात्मने नमः ||२४|| महतस्तमसः पारे पुरुषं
> ज्वलनद्युतिम् | यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ||२५||
> यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे | यं विप्रसङ्घा गायन्ति
> तस्मै वेदात्मने नमः ||२६|| ऋग्यजुःसामधामानं दशार्धहविराकृतिम् | यं
> सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ||२७|| यः सुपर्णो यजुर्नाम
> छन्दोगात्रस्त्रिवृच्छिराः | रथन्तरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः
> ||२८|| यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः | हिरण्यवर्णः
> शकुनिस्तस्मै हंसात्मने नमः ||२९|| पदाङ्गं सन्धिपर्वाणं
> स्वरव्यञ्जनलक्षणम् | यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः ||३०||
> यश्चिनोति सतां सेतुमृतेनामृतयोनिना | धर्मार्थव्यवहाराङ्गैस्तस्मै
> सत्यात्मने नमः ||३१|| यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः | पृथग्धर्मैः
> समर्चन्ति तस्मै धर्मात्मने नमः ||३२|| यं तं व्यक्तस्थमव्यक्तं
> विचिन्वन्ति महर्षयः | क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने
> नमः ||३३|| यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः | प्राहुः सप्तदशं
> साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ||३४|| यं विनिद्रा जितश्वासाः
> सत्त्वस्थाः संयतेन्द्रियाः | ज्योतिः पश्यन्ति युञ्जानास्तस्मै
> योगात्मने नमः ||३५|| अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः | शान्ताः
> संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ||३६|| योऽसौ युगसहस्रान्ते
> प्रदीप्तार्चिर्विभावसुः | सम्भक्षयति भूतानि तस्मै घोरात्मने नमः ||३७||
> सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् | बालः स्वपिति
> यश्चैकस्तस्मै मायात्मने नमः ||३८|| सहस्रशिरसे तस्मै पुरुषायामितात्मने
> | चतुःसमुद्रपर्याययोगनिद्रात्मने नमः ||३९|| अजस्य नाभावध्येकं
> यस्मिन्विश्वं प्रतिष्ठितम् | पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने
> नमः ||४०|| यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु | कुक्षौ
> समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ||४१|| युगेष्वावर्तते
> योंऽशैर्दिनर्त्वनयहायनैः | सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः
> ||४२|| ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः | पादौ
> यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ||४३|| ***यस्याग्निरास्यं
> द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः | सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै
> लोकात्मने नमः ||४४||***
>
> The last line in the above is the one quoted by Shankara bhagavatpAda.
> (The stuti continues further where Krishna is praised as the AtmA of
> soma, surya, rudra, brahma and everything, but I have posted the
> Sanskrit text till here). One who reads the above will clearly know
> that this is stuti of Krishna/Vishnu. Since it is difficult to write
> out the full translation, I will present the translation from K M
> Ganguly (which contains many interpolation verses in the middle,
> because it is not based on the critical edition), but the over all
> tone should be clear that it praises Vishnu as vedAntic brahman. The
> translation can be found here -
>
> http://www.sacred-texts.com/hin/m12/m12a047.htm
>
> By quoting this Vishnu stuti in his BSB, Shankara has also
> authenticated this portion of Mahabharata. This once again shows that
> Shankara accepted Vishnu as brahman.
>
> Regards
> Gayatri
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list