[Advaita-l] Fwd: {भारतीयविद्वत्परिषत्} ’ सत्यं ज्ञानमनन्तं ब्रह्म ’ - वैयाकरणमतम्

V Subrahmanian v.subrahmanian at gmail.com
Tue Jan 10 00:08:10 CST 2017


The Vyākaraṇa śāstra admits the Advaitic view of the unreality of
differences and the reality of the underlying unchanging truth.

Someone versed in the terminologies used in the post may please present an
English translation.

Thanks and regards
subbu
---------- Forwarded message ----------
From: Subrahmanyam Korada <korada11 at gmail.com>
Date: 2017-01-09 20:17 GMT+05:30
Subject: {भारतीयविद्वत्परिषत्} ’ सत्यं ज्ञानमनन्तं ब्रह्म ’ - वैयाकरणमतम्
To: "bvparishat at googlegroups.com" <bvparishat at googlegroups.com>








नमो विद्वद्भ्यः

सत्यं ज्ञानम् अनन्तं ब्रह्म - इति उपनिषद्वाक्यं तावत् वैयकरणैरपि
स्वीक्रियते --

तत्र महाभाष्ये कात्यायनस्य प्रथमं वार्तिकं स्वीकृत्य पतञ्जलिना अभाषि
भाष्यम् --

’ सिद्धे शब्दार्थसम्बन्धे लोकतः लोकतः अर्थप्रयुक्ते शाब्दप्रयोगे शास्त्रेण
धर्मनियमः क्रियते ’(वा)

.... अथवा द्रव्य एव पदार्थे एष विग्रहो न्याय्यः - सिद्धे शब्दे अर्थे
सम्बन्धे चेति । द्रव्यं हि नित्यम्, आकृतिः अनित्या । .... आकृतिरन्या चान्या
च भवति , द्रव्यं पुनस्तदेव । आकृत्युपमर्देन द्रव्यमेव अवशिष्यते ।

अत्र कैयटः --

द्रव्यं हि नित्यमिति । असत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं
द्रव्यशब्दवाच्यमित्यर्थः । आकृतिरिति । संस्थानम् ।ब्रह्मदर्शने च
गोत्वादिजातेरपि असत्यत्वादनित्यत्वम् , ’ आत्मैवेदं सर्वम् ’ इति
श्रुतिवचनात् ।

वेदान्तिमते जातिरपि अनित्या - ’ अग्नेः अग्नित्वम् अपागात् ’
छान्दोग्यश्रुतेः । बौद्धानां तु अपोहवादः - जातिर्नास्ति ।

वैयकरणैः तावत् अद्वैतमतमेव स्वीक्रियते ---

वाक्यपदीये पदकाण्डे द्रव्यसमुद्देशे भर्तृहरिणा  उक्तोपनिषदर्थ एव स्वीकृत्य
वैयाकरणमतमुपस्थापितम् ---

सत्यं वस्तु तदाकारैः असत्यैरवधार्यते ।
असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ॥ २

द्रव्यं द्विधा -- पारमार्थिकं व्यावहारिकं चेति । अत्र व्याकरणे द्वितीयं
स्वीकृत्य व्याकरणकार्याणि प्रवर्त्यन्ते ।

सुवर्णादि यथा भिन्नं स्वैराकारैरपायिभिः ।
रुचकाद्यभिधानानां शुद्धमेवैति वाच्यताम् ॥ ४

विकल्परूपं भजते तत्त्वमेवाविकल्पितम् ।
न चात्र कालभेदो’स्ति , कालभेदश्च गम्यते ॥ ५

सत्यमाक्रुतिसंहारे यदन्ते व्यवतिष्ठते ।
तन्नित्यं शाब्दवाच्यं तच्छद्बतत्त्वं न भिद्यते ॥ ११

तन्नास्ति विद्यते तच्च , तदेकं तत् पृथक् पृथक् ।
संसृष्टं च विभक्तं च विक्रुतं तत्तदन्यथा ॥ १२

तस्य शब्दार्थसम्बन्धरूपमेकस्य दृश्यते ।
तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥१४

वाच्या सा सर्वशब्दानां आब्दाश्च न प्रुथक् ततः ।
अपृथक्त्वे च सम्बन्धः तयोः नानात्मनोरिव ॥ १६

आत्मा परः प्रियः द्वेष्यो वक्ता वाच्यं प्रयोजनम् ।
विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतनः । १७
अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते ।
तत्त्वे जन्मादिरूपत्वं विरुद्धमुपलभ्यते ॥ १८

धन्यो’स्मि









Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
*Skype Id: Subrahmanyam Korada*
*Blog: Koradeeyam.blogspot.in <http://Koradeeyam.blogspot.in> *




-- 
You received this message because you are subscribed to the Google Groups
"भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an
email to bvparishat+unsubscribe at googlegroups.com.
To post to this group, send email to bvparishat at googlegroups.com.
For more options, visit https://groups.google.com/d/optout.


More information about the Advaita-l mailing list