[Advaita-l] Vaadiraaja Teertha's Yuktimallika - Advaita Criticism - Slokas 1-605 to 1-627

V Subrahmanian v.subrahmanian at gmail.com
Thu Jun 29 13:57:57 EDT 2017


Similar to the 'neha nānāsti kinchana....mrtyoḥ sa mrtyumāpnoti ya iha
nāneva pashyati' in the Kathopanishad, we have in the Nrsimha uttara tāpani
upanishad:

रहस्यमविकल्पो ह्ययमात्माऽद्वितीयत्वादविकल्पो
ह्ययमोङ्कारोऽद्वितीयत्वादेव चिन्मयो ह्ययमोङ्कार-
स्तस्मात्परमेश्वर एवैकमेव तद्भवत्यविकल्पोऽपि
नात्र काचन भिदास्ति नैव तत्र काचन भिदास्त्यत्र
हि भिदामिव मन्यमानः शतधा सहस्रधा भिन्नो
मृत्योः स मृत्युमाप्नोति तदेतदद्वयं स्वप्रकाशं
महानन्दमात्मा एवैतदमृतमभयमेतद्ब्रह्माभयं
वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
रहस्यम् ॥

इत्यष्टमः खण्डः ॥ ८॥

देवा ह वै प्रजापतिमब्रुवन्निममेव नो
भगवन्नोङ्कारमात्मानमुपदिशेति
तथेत्युपद्रष्टानुमन्तैष आत्मा
नृसिंहश्चिद्रूप एवाविकारो ह्युपलब्धः
सर्वस्य सर्वत्र न ह्यस्ति द्वैतसिद्धिरात्मैव
सिद्धोऽद्वितीयो मायया ह्यन्यदिव स वा एष
आत्मा पर एषैव सर्वं


The context very clearly shows that dvaita darshna is what is censured. The
second paragraph confirms this: one sees another due to ignorance. So, the
interpretation that the Katha shruti talks about non--difference of Brahman
and its guṇa-s is not correct. The pūrva-apara mantras clearly show that
Brahman and its guṇa-s is not the subject matter of this mantra:

यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १० ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S01_V11&hlBhashya=%E0%A4%A8%E0%A5%87%E0%A4%B9%20%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF#bhashya-Ka_C02_S01_V10>
 नेह नानास्ति

मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S01_V11&hlBhashya=%E0%A4%A8%E0%A5%87%E0%A4%B9%20%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF#bhashya-Ka_C02_S01_V11>
प्रागेकत्वविज्ञानादाचार्यागमसंस्कृतेन मनसैव इदं ब्रह्मैकरसम् आप्तव्यम्
आत्मैव नान्यदस्तीति । आप्ते च नानात्वप्रत्युपस्थापिकाया अविद्याया
निवृत्तत्वात् इह ब्रह्मणि नाना नास्ति किञ्चन अणुमात्रमपि । यस्तु
पुनरविद्यातिमिरदृष्टिं न मुञ्चति इह ब्रह्मणि नानेव पश्यति, स
मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेदमध्यारोपयन्नित्यर्थः ॥

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२ ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S01_V11&hlBhashya=%E0%A4%A8%E0%A5%87%E0%A4%B9%20%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF#bhashya-Ka_C02_S01_V12>

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३ ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S01_V11&hlBhashya=%E0%A4%A8%E0%A5%87%E0%A4%B9%20%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF#bhashya-Ka_C02_S01_V13>

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥ १४ ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S01_V11&hlBhashya=%E0%A4%A8%E0%A5%87%E0%A4%B9%20%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF#bhashya-Ka_C02_S01_V14>
पुनरपि भेददर्शनापवादं ब्रह्मण आह — यथा उदकं दुर्गे दुर्गमे देशे उच्छ्रिते
वृष्टं सिक्तं पर्वतेषु पर्ववत्सु निम्नप्रदेशेषु विधावति विकीर्णं
सद्विनश्यति, एवं धर्मान् आत्मनोऽभिन्नान् पृथक् पश्यन् पृथगेव प्रतिशरीरं
पश्यन् तानेव शरीरभेदानुवर्तिनः अनुविधावति । शरीरभेदमेव पृथक् पुनः पुनः
प्रतिपद्यत इत्यर्थः ॥

vs


More information about the Advaita-l mailing list