[Advaita-l] मृत्युंजय महादॆव त्राहि मां शरणागतम्‌ - Mrityunjaya Stotram

Venkatesh Murthy vmurthy36 at gmail.com
Sat Oct 21 10:56:58 EDT 2017


Namaste

2017-10-21 18:26 GMT+05:30 D.V.N.Sarma డి.వి.ఎన్.శర్మ <dvnsarma at gmail.com>:

> The english transliteration of the stotra shown in the video is full of
> mistakes.
>
>
This has the same Stotra and same music with English translation -

https://youtu.be/CJ9Hix4u-zw


> regards,
> Sarma.
>
> 2017-10-21 16:50 GMT+05:30 Venkatesh Murthy via Advaita-l <
> advaita-l at lists.advaita-vedanta.org>:
>
>> Namaste
>>
>> https://youtu.be/vgu91Z4kXpk
>>
>> ॐ अस्य श्री महा मृत्युंजय स्तॊत्र मंत्रस्य
>> श्री मार्कांडॆय ऋषिः अनुष्टुप् छंदः
>> श्री मृत्युंजयॊ दॆवता गौरीशक्तिः मम सर्वारिष्ट
>> समस्त मृत्त्युशांत्यर्थं सकलैश्वर्य प्राप्त्यर्थं
>> जपॆ विनियॊगः अथ ध्यानम्
>>
>> चंद्रर्काग्निविलॊचनं स्मितमुखं पद्मद्वयांतः स्थितम्’
>> मुद्रापाश मृगाक्ष सत्रविलसत् पाणिं हिमांशुं प्रभुम्
>>
>> कॊटींदु प्रहरत् सुधाप्लुत तनुं हारादिभोषॊज्वलं
>> कांतं विश्वविमॊहनं पशुपतिं मृत्युंजयं भावयॆत्
>>
>> ॐ रुद्रं पशुपतिं स्थाणुं नीलकंठमुमापतिम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १ ॥
>>
>> नीलकंठं कालमूर्तिं कालज्ञं कालनाशनम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ २ ॥
>>
>> नीलकंठं विरूपाक्षं निर्मलं निलयप्रदम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ३ ॥
>>
>> वामदॆवं महादॆवं लॊकनाथं जगद्गुरम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ४ ॥
>>
>> दॆवदॆवं जगन्नाथं दॆवॆशं वृषभध्वजम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ५ ॥
>>
>>
>> गंगाधरं महादॆवं सर्पाभरणभूषितम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ६ ॥
>>
>> त्र्यक्षं चतुर्भुजं शांतं जटामुकुटधारणम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ७ ॥
>>
>> भस्मॊद्धूलितसर्वांगं नागाभरणभूषितम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ८ ॥
>>
>> अनंतमव्ययं शांतं अक्षमालाधरं हरम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ९ ॥
>>
>> आनंदं परमं नित्यं कैवल्यपददायिनम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १० ॥
>>
>> अर्धनारीश्वरं दॆवं पार्वतीप्राणनायकम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ११ ॥
>>
>> प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १२ ॥
>>
>> व्यॊमकॆशं विरूपाक्षं चंद्रार्द्ध कृतशॆखरम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १३ ॥
>>
>> गंगाधरं शशिधरं शंकरं शूलपाणिनम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १४ ॥
>>
>> अनाथं परमानंदं कैवल्यपददायिनम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १५ ॥
>>
>> स्वर्गापवर्ग दातारं सृष्टिस्थित्यांतकारिणम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १६ ॥
>>
>> कल्पायुर्द्दॆहि मॆ पुण्यं यावदायुररॊगताम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १७ ॥
>>
>> शिवॆशानां महादॆवं वामदॆवं सदाशिवम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १८ ॥
>>
>> उत्पत्ति स्थितिसंहार कर्तारमीश्वरं गुरुम्‌ ।
>> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १९ ॥
>>
>> *फलश्रुति*
>>
>> मार्कंडॆय कृतं स्तॊत्रं य: पठॆत्‌ शिवसन्निधौ ।
>> तस्य मृत्युभयं नास्ति न अग्निचॊरभयं क्वचित्‌ ॥ २० ॥
>>
>> शतावृतं प्रकर्तव्यं संकटॆ कष्टनाशनम्‌ ।
>> शुचिर्भूत्वा पठॆत्‌ स्तॊत्रं सर्वसिद्धिप्रदायकम्‌ ॥ २१ ॥
>>
>> मृत्युंजय महादॆव त्राहि मां शरणागतम्‌ ।
>> जन्ममृत्यु जरारॊगै: पीडितं कर्मबंधनै: ॥ २२ ॥
>>
>> तावकस्त्वद्गतप्राणस्त्व च्चित्तॊऽहं सदा मृड ।
>> इति विज्ञाप्य दॆवॆशं त्र्यंबकाख्यममं जपॆत्‌ ॥ २३ ॥
>>
>> नम: शिवाय सांबाय हरयॆ परमात्मनॆ ।
>> प्रणतक्लॆशनाशाय यॊगिनां पतयॆ नम: ॥ २४ ॥
>>
>> ॥ इती श्री मार्कंडॆयपुराणॆ महा मृत्युंजय स्तॊत्रं संपूर्णम्‌ ॥
>>
>> --
>> Regards
>>
>> -Venkatesh
>> _______________________________________________
>> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
>> http://blog.gmane.org/gmane.culture.religion.advaita
>>
>> To unsubscribe or change your options:
>> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>
>> For assistance, contact:
>> listmaster at advaita-vedanta.org
>>
>
>


-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list