[Advaita-l] vishnu purana - bhranti, etc. references
V Subrahmanian
v.subrahmanian at gmail.com
Wed Jan 31 06:21:07 EST 2018
vishnu purana - bhranti, etc. references
Here are just a few, of the many, verses where the Advaitic concepts of
ajnana, bhrama, etc. are present in the Vishnu Puranam: [As an exercise,
members may please give the gist of the verses, if they can. Thanks.]
यदेतद्दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव ।
भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥ १,४.३९ ॥
ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ।
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ १,४.४० ॥
ये तु ज्ञानविदः सुद्धचेतसस्तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥ १,४.४१ ॥
ज्ञानस्वरूपो भगवान्यतोसावशेषमूर्तिर्न तु वस्तुभूतः ।
ततो हि शैलाब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि ॥ २,१२.३९ ॥
यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम् ।
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ २,१४.२६ ॥
परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः ॥ २,१४.२७ ॥
तस्माच्छ्रेयांस्यशेषाणि नृवैतानि न संशयः ।
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २,१४.२८ ॥
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः ॥ २,१४.२९ ॥
परज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः ।
न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते ॥ २,१४.३० ॥
तस्यात्मपरदेहेषु सतोप्येकमयं हि यत् ।
विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यर्शिनः ॥ २,१४.३१ ॥
वेणुरन्ध्रप्रभेदेन भेदः षङ्जादिसंज्ञितः ।
अभेदव्यापिनोवायोस्तथास्य परमात्मनः ॥ २,१४.३२ ॥
एकस्वरूपभेदश्च ब्राह्मकर्मावृतिप्रजः ।
देवादिभेदेऽपध्वस्तें नास्त्येवावरणे हि सः ॥ २,१४.३३ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे चतुर्दशोऽध्यायः (१४)
Ribhu- Nidagha story:
अपाप्तज्ञानतन्त्रस्य न तस्याद्वैतवासना ।
स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥ २,१५.५ ॥
देविकायास्तटे वीरनगरं नाम वै पुरम् ।
....ऋबुरुवाच
तवोपदेशदानाय पूर्वशुश्रुषणादृतः ।
गुरुस्नेहादृभुर्नाम निदाघ समुपागतः ॥ २,१६.१७ ॥
तदेतदुपदिष्टं ते संक्षेपेण महामते ।
परमार्थसारभूतं यदद्वैतमशेषतः ॥ २,१६.१८ ॥
भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ २,१६.२२ ॥
एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् ।
सोऽहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ २,१६.२३ ॥
विज्ञानमयमेवैतदशेषमवगच्छत ।
बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम् ॥ ३,१८.१८ ॥
जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् ।
रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे ॥ ३,१८.१९ ॥
तद्भावभावमापन्नस्ततोऽसौ परमात्मना ।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ ६,७.९५ ॥
विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसंतं कः करीष्यति ॥ ६,७.९६ ॥
अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम् ॥ १,१४.४० ॥
अनामगोमत्रसुखमतेजस्कमहेतुकम् ।
अभयं भ्रान्तिरहितम निद्रमजरामरम् ॥ १,१४.४१ ॥
तथा त्वमपि धर्मज्ञ तुल्योत्मरीपुबान्धवः ।
भव सर्गगतं जानन्नत्मानमवनीपते ॥ २,१६.२१ ॥
सितनीला दिभेदेन यथैकं दृश्यते नभः ।
भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ २,१६.२२ ॥
एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् ।
सोऽहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ २,१६.२३ ॥
खाण्डिक्य उवाच
कथिते योगसद्भावे सर्वमेव कृतं मम ।
तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ॥ ६,७.९८ ॥
ममेति यन्मया चोक्तमसदेतन्न चान्यथा ।
नरेद्र गदितुं शक्यमपि विज्ञेयवेदिभिः ॥ ६,७.९९ ॥
अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ।
Sridhara Swamin writes here: When the impurity of the mind in the form of I
and mine has vanished, is it not a contradiction when I say 'By Your
teaching...'? The reply is 'No.' What I have said is asat alone but
expressed as a lingering of that which has been sublated: बाधितानुवृत्त्या.
Otherwise, it is impossible to even speak by the Knowers of the Truth;
where is the question of experiencing the effects of the prarabdha karma?
[The idea is: unless we accept the बाधितानुवृत्त्या ...idea, the Jnani
teaching someone, his living out his life till the fall of the body, etc.
cannot be explained.]
अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ।
परमार्थस्त्वसंलापो गोचरे वचसां न यः ॥ ६,७.१०० ॥
The notion of I and mine are avidya, ignorance
तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः ।
विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ ६,७.१०४ ॥
The King sat in concentration, endowed with the disciplines of yama, etc.
He attained merger with the Blemishless Brahman known as Vishnu.
[Here the adjective for Vishnu indicate that it is Nirguna Brahman and not
any formed deity. For, it is impossible to attain any merger in a limited
formed entity. This reminds us of Shankara's bhashya for the kathopanishat
statement तत् विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं
प्रकृष्टं पदं स्थानम् , सतत्त्वमित्येतत् , यत् असावाप्नोति… for the
mantra सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९ ॥ 1.3.9
regards
subrahmanian.v
More information about the Advaita-l mailing list