[Advaita-l] Is Badarayana same as Vyasa?

Praveen R. Bhat bhatpraveen at gmail.com
Mon Jul 23 03:12:40 EDT 2018


 नमस्काराः।

On Sun 22 Jul, 2018, 23:17 D.V.N.Sarma డి.వి.ఎన్.శర్మ via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

> आयन शब्दः प्रायशः अपत्यार्थे विनियुक्तं भवति। यदि बादरायणः बादरेरपत्यं स
> कथं पराशररस्यापत्यं भवति।
>

​तस्मादपत्यमित्यर्थो नास्त्यत्र। ​
योगिकार्थाद्रूढ्यर्थो
 बलीयान्। किञ्चात्र अयनशब्दो वर्तते न तु आयनशब्दः।​

​

> 2018-07-22 20:09 GMT+05:30 D.V.N.Sarma డి.వి.ఎన్.శర్మ <dvnsarma at gmail.com
> >:
>
> > जैमिन्याः मीमांसा सूत्रे बादरि नामकः आचार्योऽस्ति। बादरायणः तस्यापत्यं
> > भवितुं शक्नोति।
> >
>

​न तथा पराशरात्मनजमिति वचनात्।

On Sun, Jul 22, 2018 at 9:07 PM D.V.N.Sarma డి.వి.ఎన్.శర్మ via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> यदि वयं सर्वदा संप्रदायस्य अथवा सिद्धान्तपक्षस्य शुकानुवादं कुर्मः,
> नूतनविषयान् वा सत्यं कथं जानीमः। संदेहः करणीयः। संदेहादेव सत्यमाविष्कृतं
> भवति।
>

​स्वकपोलकल्पिताः बह्वर्थाः शक्यन्ते। तैः किम्? तेषां प्रयोजनं संशये एव भवति
न तु निश्चये। तात्पर्यनिश्चयस्तु सर्वविषयेषु लौकिके वा शास्त्रीये वा
तत्तत्सम्प्रदाये
एव लभते। संशयात्मा विनश्यति, श्रद्धावान् लभते ज्ञानमिति वचनाभ्यामपि।
अत
​ एवोक्तम् असम्प्रदायवित्मुर्खवदुपेक्षणीय इति।​


गुरुपादुकाभ्याम्।
प्रवीणभट्टः।
/* येनेदं सर्वं विजानाति, तं केन विजानीयात्। */ ​


More information about the Advaita-l mailing list