[Advaita-l] Vishnupuranam - Adhyasa Bhashyam - Sridharaswamin connection

V Subrahmanian v.subrahmanian at gmail.com
Tue Oct 23 14:19:33 EDT 2018


Vishnupuranam - Adhyasa Bhashyam - Sridharaswamin connection

सर्वभूतान्यभेदेन ददृशे स तदात्मनः  ।

यथा ब्रह्मपरो मुक्तिमवाप परमां द्विजः  ॥ २,१६.२० ॥

तथा त्वमपि धर्मज्ञ तुल्योत्मरीपुबान्धवः  ।

भव सर्गगतं जानन्नात्मानमवनीपते  ॥ २,१६.२१ ॥

सितनीलादिभेदेन यथैकं दृश्यते नभः  ।

भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ २,१६.२२ ॥

एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् ।

सोऽहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम्  ॥ २,१६.२३ ॥


http://talkandcomment.com/p/0ac5d42bd3b19f30012eaf3e


 (voice note)


कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि
पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य च
प्रत्यगात्मनः अविषयत्वं ब्रवीषि । उच्यते — न तावदयमेकान्तेनाविषयः,
अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः ; न चायमस्ति
नियमः — पुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमिति ; *अप्रत्यक्षेऽपि
**ह्याकाशे बालाः
तलमलिनतादि अध्यस्यन्ति ; एवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः ॥  *


*http://talkandcomment.com/p/adc0d0ea8ab475b7b12c49bb
<http://talkandcomment.com/p/adc0d0ea8ab475b7b12c49bb>*



* (voice note)*


regards

subrahmanian.v


More information about the Advaita-l mailing list