[Advaita-l] A very informative post in Tamil on 'the tenth man' concept

V Subrahmanian v.subrahmanian at gmail.com
Thu Jan 24 01:30:44 EST 2019


A very informative post in Tamil on 'the tenth man' concept

பரமார்த்த குருவும் பஞ்சதசீயும் | அரவிந்தன் நீலகண்டன்

https://www.valamonline.in/2019/01/blog-post_24.html?fbclid=IwAR3DWzOB1GMFjF_Kez5MCOCcfoyPGw_GW72kNPjR_wUv5T2x35pfOumjs9I

This story is implicit in the Taittiriya Bhashya of Shankara:
ननु, सर्वगतं सर्वस्य चात्मभूतं ब्रह्म वक्ष्यति । अतो नाप्यम् । आप्तिश्च
अन्यस्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा । अपरिच्छिन्नं सर्वात्मकं
च ब्रह्मेत्यतः परिच्छिन्नवत् अनात्मवच्च तस्याप्तिरनुपपन्ना । नायं दोषः ।
कथम् ? दर्शनादर्शनापेक्षत्वाद्ब्रह्मण आप्त्यनाप्त्योः, परमार्थतो
ब्रह्मस्वरूपस्यापि सतः अस्य जीवस्य
भूतमात्राकृतबाह्यपरिच्छिन्नान्नमयाद्यात्मदर्शिनः तदासक्तचेतसः । प्रकृत
सङ्ख्यापूरणस्यात्मनः अव्यवहितस्यापि बाह्यसङ्ख्येयविषयासक्तचित्ततया
स्वरूपाभावदर्शनवत् परमार्थब्रह्मस्वरूपाभावदर्शनलक्षणया अविद्यया
अन्नमयादीन्बाह्याननात्मन आत्मत्वेन प्रतिपन्नत्वात् अन्नमयाद्यनात्मभ्यो
नान्योऽहमस्मीत्यभिमन्यते । एवमविद्यया आत्मभूतमपि ब्रह्म अनाप्तं स्यात् ।
तस्यैवमविद्यया अनाप्तब्रह्मस्वरूपस्य प्रकृतसङ्ख्यापूरणस्यात्मनःअविद्ययानाप्तस्य
सतः केनचित्स्मारितस्य पुनस्तस्यैव विद्यया आप्तिर्यथा, तथा श्रुत्युपदिष्टस्य
सर्वात्मब्रह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव ।

The Tamil article is worth reading and sharing.

regards
subbu


More information about the Advaita-l mailing list