[Advaita-l] Both Bandha and Moksha under the supervision of Saguna Brahman alone
V Subrahmanian
v.subrahmanian at gmail.com
Mon Apr 13 10:31:09 EDT 2020
In the Brahma sutra bhashya 2.3.41, Bhagavatpada says:
परात्तु तच्छ्रुतेः ॥ ४१ ॥
यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभिहितम् ,
तत्किमनपेक्ष्येश्वरं भवति, आहोस्विदीश्वरापेक्षमिति अद्वैत। तत्र प्राप्तं
तावत् — नेश्वरमपेक्षते जीवः कर्तृत्व इति । कस्मात् ? अपेक्षाप्रयोजनाभावात्
; अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसम्पन्नः
कर्तृत्वमनुभवितुं शक्नोति ; तस्य किमीश्वरः करिष्यति । न च लोके
प्रसिद्धिरस्ति — कृष्यादिकासु क्रियास्वनडुहादिवत् ईश्वरोऽपरोऽपेक्षितव्य इति
। क्लेशात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत ;
विषमफलं च एषां कर्तृत्वं विदधतो वैषम्यम् । ननु ‘वैषम्यनैर्घृण्ये न
सापेक्षत्वात्’ (ब्र. सू. २ । १ । ३४) इत्युक्तम् — सत्यमुक्तम् , सति तु
ईश्वरस्य सापेक्षत्वसम्भवे ; सापेक्षत्वं च ईश्वरस्य सम्भवति सतोर्जन्तूनां
धर्माधर्मयोः ; तयोश्च सद्भावः सति जीवस्य कर्तृत्वे ; तदेव
चेत्कर्तृत्वमीश्वरापेक्षं स्यात् , किंविषयमीश्वरस्य सापेक्षत्वमुच्यते ।
अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत । तस्मात्स्वत एवास्य कर्तृत्वमिति — एतां
प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते — परादिति ; अविद्यावस्थायां
कार्यकरणसङ्घाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः
कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया
कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः ; तदनुग्रहहेतुकेनैव च विज्ञानेन
मोक्षसिद्धिर्भवितुमर्हति ।
The point to be noted is: Even the aparoksha jnanam of Nirguna Brahman that
is necessary for the jiva to secure for moksha has to arise only on the
blessing of the Saguna Brahman. The Acharya, while describing the Brahman
that is the cause of both bandha vyvasthaa and moksha siddhi, paraphrases
the Shvetashvataropanishad 'एको देवः सर्वभूतेषु गूढः....साक्षी चेता केवलो
निर्गुणश्च': While the ultimate, absolute, position (paaramaarthika) of
Advaita is: न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै
मुक्त इत्येषा परमार्थता ॥ ३२ ॥ as taught by the Amritabindu Upanishad and
stated in the Gaudapada Karika 2.32, which means: 'there is no birth for
the (jiva) Atman, no death, none who is bound, none who is endowed with the
means to moksha, none striving for moksha, none really liberated' yet when
we talk of bondage and liberation, bandha and moksha, this vyavahara has to
be within a properly managed arrangement, vyavasthita rupam, the role of
that 'vyavasthaapaka', Saguna Ishwara, has to be stated. This is what the
Bhashyam does in the cited passages above.
regards
subbu
More information about the Advaita-l mailing list