[Advaita-l] Fwd: {भारतीयविद्वत्परिषत्} Re: pāṣaṇḍa

V Subrahmanian v.subrahmanian at gmail.com
Sat Apr 18 00:07:23 EDT 2020


In the following post there are Purana passages cited for the
categorization of Kaapaalika-s and Paancharaatras as PaaShaNDa-s. And for
the two schools as Pashada doctrines.  That they have to be kept out of
shishtachara is also stated there. In this connection one may refer to this
article:

https://adbhutam.wordpress.com/2017/02/17/pasupata-and-pancharatra-composed-as-mohaka-sastra-s/

regards
subbu

---------- Forwarded message ---------
From: श्रीमल्ललितालालितः <lalitaalaalitah at lalitaalaalitah.com>
Date: Fri, Apr 17, 2020 at 8:29 PM
Subject: {भारतीयविद्वत्परिषत्} Re: pāṣaṇḍa
To: भारतीयविद्वत्परिषत् <bvparishat at googlegroups.com>


इदमत्र ब्रह्मवैवर्त्तवाक्यं हेमाद्रिणोद्धॄतं
पाशब्देन त्रयीधर्म्मः पालनाज्जगतां स्मृतः ।
तं षण्डयन्ति यस्मात् ते पाषण्डास्तेन हेतुना ॥
वेदविरुद्धग्रन्थेषय सम्प्रदायेषु वा पाषण्डशब्दप्रयोगोप्यस्ति । तथा हि
नग्नादीन् भगवन् सम्यक् ममाद्य परिपृच्छतः ।\\
            आचक्ष्व सर्व्वथा सर्व्वान् विस्तरेण यथातथम् ॥\\
            एवमुक्तो महातेजाः बृहस्पतिरुवाच तम् ।\\
            पुरा देवासुरे युद्धे निर्ज्जितेष्वसुरेष्वथ ॥\\
            पाषण्डाधिकृताः सर्व्वे ह्येते सृष्टाः स्वयम्भुवा ।
अत्र पाषण्डशब्देन शास्त्रविशेषो ग्राह्यः ।
कौर्म्मे चेदं पठितं
वृद्धश्रावकनिर्ग्रन्थाः
*पञ्चरात्रविदो जनाः ।\\            कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः
॥ *
अत्र पाषण्डशब्देन वेदविरुद्धसम्प्रदायानुगता जना ग्राह्याः ।
इदमपि तत्रैव

*पाषण्डिनो विकर्म्मस्थान् वामाचारांस्तथैव च ।पाञ्चरात्रान् पाशुपतान्
वाङ्मात्रेणापि नार्च्चयेत् ॥*
इति ।
पाषण्डेषु तथान्येषु मार्ग्गेष्वश्रौतकेषु च ।\\
            श्रद्धया दीक्षिता यूयं भवत ब्राह्मणाधमाः ॥४१॥
इत्यत्र स्कान्दे तु वेदविरुद्धशास्त्रोपदिष्टमार्ग्गः पाषण्डः ।
इदञ्च तथैव पाराशरे
*पाञ्चरात्रे च कापाले पाषण्डेष्वपरेषु च ।\\*
                दीक्षिताश्च भवन्त्येव मनुष्याः पापकर्म्मिणः ॥

केवलं वाक्यान्यत्र पातितानि । कालाभावात् किमपि नान्यत् लिख्यते ।

-- 
You received this message because you are subscribed to the Google Groups
"भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an
email to bvparishat+unsubscribe at googlegroups.com.
To view this discussion on the web visit
https://groups.google.com/d/msgid/bvparishat/fef87724-de38-4039-bfde-90880152eabb%40googlegroups.com
<https://groups.google.com/d/msgid/bvparishat/fef87724-de38-4039-bfde-90880152eabb%40googlegroups.com?utm_medium=email&utm_source=footer>
.


More information about the Advaita-l mailing list