[Advaita-l] Why did Brahman create the world?

Praveen R. Bhat bhatpraveen at gmail.com
Thu Jan 30 09:45:34 EST 2020


>
> ‘को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः’ (ऋ. १० । १२९ ।
> ६),
>

And the Sayanabhashya under that Rigmantra:

एवम् भोक्तृभोग्यरूपेण सृष्टिः सङ्ग्रहेण प्रतिपादिता। एतावद्वा इदमन्नं
चैवान्नादश्च सोम एवान्नमग्निरन्नाद इतिवत्। अथेदानीं सा सृष्टिर्दुविज्ञानेति
न विस्तरेणाभिहितेत्याह। को अद्धेति। कः पुरुषोऽद्धा पारमार्थ्येन वेद।
जानाति। को वेहास्मिंल्लोके प्र वोचत्। प्रब्रूयात्। इयं दृश्यमाना
विसृष्तिर्विविधा भूतभौतिकभोक्तृभोग्यादिरूपेण बहुप्रकारा सृष्टिः कुतः
कस्मादुपादानकारणात् कुतः कस्माच्च निमित्तकारणादाजाता। समन्ताज्जाता।
प्रादुर्भूता। एतदुभयम् सम्यक्को वेद को वा विस्तरेण वक्तुं शक्नुयादित्यर्थः।
ननु देवा अजानन्तः। सर्वज्ञास्ते ज्ञास्यन्ति वक्तुं च शक्नुवन्तीत्यत आह।
अर्वागिति। देवाश्चास्य जगतो विसर्जनेन वियदादिभूतोत्पत्त्यनन्तरं विविधं
यद्भौतिकं सर्जनं सृष्टिस्तेनार्वागर्वाचीनाः कृताः। भूतसृष्टेः पश्चाज्जाता
इत्यर्थः। तथाविधास्ते कथम् स्वोत्पत्तेः पूर्वकालीनां सृष्टिं जानीयुः।
अजानन्तो वा कथं प्रब्रूयुः। उक्तं दुर्विज्ञानत्वं निर्गमयति। अथैवं सति देवा
अपि न जानन्ति किल। तद्व्यतिरिक्तः को नाम मनुष्यादिर्वेद तज्जगत्कारणं जानाति
यतः कारणात्कृत्स्नं जगदाबभुव अजायत॥

Kind rgds,
--Praveen R. Bhat
/* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one know
That owing to which all this is known! [Br.Up. 4.5.15] */


More information about the Advaita-l mailing list