[Advaita-l] Jabalopanishad cited by Shankara alluded to in the Kurmapuranam

V Subrahmanian v.subrahmanian at gmail.com
Mon Nov 9 03:36:10 EST 2020


In the Brahmasutra Bhashya 1.2.32, while explaining that the all-pervading
Brahman can also be given a location for the purposes of Upasana/Jnana,
Shankara cites a few passages from the Jabalopanishad:

आमनन्ति चैनमस्मिन् ॥ ३२ ॥
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः — ‘य
एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः
कस्मिन्प्रतिष्ठित इति । वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का
च नासीति’ । तत्र चेमामेव नासिकाम् ‘सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा
वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासी’ इति वरणानासीति निरुच्य,
पुनरप्यामनन्ति — ‘कतमच्चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः सन्धिः स
एष द्युलोकस्य परस्य च सन्धिर्भवति’ (जा. उ. २)
<https://advaitasharada.sringeri.net/display/bhashya/jbl?page=NaN&id=JB_V02&hl=%E0%A4%95%E0%A4%A4%E0%A4%AE%E0%A4%9A%E0%A5%8D%E0%A4%9A%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%82%20%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A5%80%E0%A4%A4%E0%A4%BF%C2%A0%E0%A5%A4%20%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%B5%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%98%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%9A%20%E0%A4%AF%E0%A4%83%20%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83%20%E0%A4%B8%20%E0%A4%8F%E0%A4%B7%20%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%9A%20%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF>
इति ।
तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः ।

Moreover the Jâbâlas speak in their text of the highest Lord as being in
the interstice between the top of the head and the chin. 'The unevolved
infinite Self abides in the avimukta (i.e. the non-released soul). *Where
does that Avimukta abide? It abides in the Varanâ and the Nâsî, in the
middle. What is that Varanâ, what is that Nâsî?'* The text thereupon
etymologises the term Varanâ as that which wards off (vârayati) all evil
done by the senses, and the term Nâsî as that which destroys (nâsayati) all
evil done by the senses; and then continues, '*And what is its place?--The
place where the eyebrows and the nose join.* That is the joining place of
the heavenly world (represented by the upper part of the head) and of the
other (i.e. the earthly world represented by the chin).' (Jâbâla Up.
I.)--Thus it appears that the scriptural statement which ascribes to the
highest Lord the measure of a span is appropriate ......... By all this it
is proved that Vaisvânara is the highest Lord.

The entire Jabalopanishat can be read here:
https://advaitasharada.sringeri.net/display/bhashya/jbl

We find the Jabalopanishat context cited by Shankara in the BSB annotated
in the Kurma Purana as follows.  The context is the Avimukta/Varanasi
Kshetra.  Apart from Varanasi being a holy place where the Ganga flows, the
word Varanasi is taken as representing two parts of the body, in the head,
and also etymologically that which destroys all sins. All these are brought
out in the Kurmapurana cited below:

One can read the translation of these verses here:
https://archive.org/details/kurma-purana-full-vols-20-21/page/247/mode/2up
 (from lower right hand page onward). The part referred to by Shankara is
to be seen on the page 243 of the pdf.

वाराणसीं समासाद्य पुनाति सकलं नरः  ॥ १,२९.५१ ॥

वाराणस्यां महादेवं येर्ऽचयन्ति स्तुवन्ति वै  ।

सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः  ॥ १,२९.५२ ॥

अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः  ।

प्राप्यते तत्परं स्थानं सहस्त्रेणैव जन्मना  ॥ १,२९.५३ ॥

ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै  ।

ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना  ॥ १,२९.५४ ॥

यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना  ।

अविमुक्तं समासाद्य नान्यद्गच्छेत्तपोवनम्  ॥ १,२९.५५ ॥

यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम्  ।

तदेव गुह्यं गुह्यानामेतद्विज्ञाय मुच्यते  ॥ १,२९.५६ ॥

ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम्  ।

या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु  ॥ १,२९.५७ ॥

यानि चैवाविमुक्तस्य देहे तूक्तानि कृत्स्नशः  ।

पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिका शुभा  ॥ १,२९.५८ ॥

यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः  ।

व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम्  ॥ १,२९.५९ ॥

यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम्  ।

एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥ १,२९.६० ॥

भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि  ।

यथाविमुक्तादित्ये वाराणस्यां व्यवस्थितम्  ॥ १,२९.६१ ॥

वरणायास्तथा चास्या मध्ये वाराणसी पुरी  ।

तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम्  ॥ १,२९.६२ ॥

वाराणस्याः परं स्थानं न भूतं न भविष्यति  ।

यत्र नारायणो देवो महादेवो दिवेश्वरः  ॥ १,२९.६३ ॥

तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः  ।

उपासते मां सततं देवदेवं पितामहम्  ॥ १,२९.६४ ॥

महापातकिनो ये च ये तेभ्यः पापकृत्तमाः  ।

वाराणसीं समासाद्य ते यान्ति परमां गतिम्  ॥ १,२९.६५ ॥

तस्मान्मुमुक्षुर्नियतो वसेद्वै मरणान्तिकम्  ।

वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते  ॥ १,२९.६६ ॥


Om Tat Sat


More information about the Advaita-l mailing list