[Advaita-l] Bhakti as identification and surrender

Venkata sriram P venkatasriramp at yahoo.in
Sun Sep 6 07:41:15 EDT 2020


Namaste,

तेषां ज्ञानी नित्ययुक्त "एकभक्तिर्विशिष्यते" ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ (BG 7.17)

मधुसूदन सरस्वती विरचित "गूढार्थदीपिका" - 

/////////////////////

चतुर्विधानामपि सुकृतित्वे नियतेऽपि सुकृताधिक्येन निष्कामतया प्रेमाधिक्यात् चतुर्विधानां तेषां मध्ये ज्ञानीतत्त्वज्ञानवान्निवृत्तसर्वकामो 
विशिष्यते सर्वतोऽतिरिच्यते। सर्वोत्कृष्ट इत्यर्थः। यतो नित्ययुक्तो भगवति प्रत्यगभिन्ने सदा समाहितचेता विक्षेपकाभावात्। 
अतएवैकभक्तिरेकस्मिन्भगवत्येव भक्तिरनुरक्तिर्यस्य स तथा तस्यानुरक्तिविषयान्तराभावात्। हि यस्मात् प्रियो 
निरुपाधिप्रेमास्पदमत्यर्थमत्यन्तमतिशयेन ज्ञानिनोऽहं प्रत्यगभिन्नः परमात्मा सच तस्मादत्यर्थं मम परमेश्ववरस्य प्रियः। 
आत्मा प्रियोऽतिशयेन भवतीति श्रुतिलोकयोः प्रसिद्धमेवेत्यर्थः।

//////////////

यतो नित्ययुक्तो भगवति प्रत्यगभिन्ने सदा समाहितचेता विक्षेपकाभावात्। 
अतएवैकभक्तिरेकस्मिन्भगवत्येव अनुरक्तिः 

Regs,
Sriram


More information about the Advaita-l mailing list