[Advaita-l] Shankara sees the entire Upanishaic corpus as one text

V Subrahmanian v.subrahmanian at gmail.com
Sat Dec 4 21:51:50 EST 2021


In the bhashyam to the verse 73 of the 18th chapter of the Bh. Gita
Shankara cites passages from three different Upanishads to convey one
sequential thought: the Chandogya to state the need for Atma knanam, the
Mundaka for the very sakshatkara and the Ishavasya for the sarvatmabhava
phala. It is interesting to see His use of the lyabanta suffix after the
first passage. The sequence is so telling. A beautiful statement of
ekavakyata across Upanishads.




अर्जुन उवाच —
नष्टो मोहः स्मृतिर्लब्धा
त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः
करिष्ये वचनं तव ॥ ७३ ॥
नष्टः मोहः अज्ञानजः समस्तसंसारानर्थहेतुः, सागर इव दुरुत्तरः । स्मृतिश्च
आत्मतत्त्वविषया लब्धा, यस्याः लाभात् सर्वहृदयग्रन्थीनां विप्रमोक्षः ;
त्वत्प्रसादात् तव प्रसादात् मया त्वत्प्रसादम् आश्रितेन अच्युत । अनेन
मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् एतावदेवेति निश्चितं दर्शितं
भवति, यतः ज्ञानात् मोहनाशः आत्मस्मृतिलाभश्चेति । तथा च श्रुतौ ‘अनात्मवित्
शोचामि’ (छा. उ. ७ । १ । ३) इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनां
विप्रमोक्षः उक्तः ; ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) ‘तत्र को मोहः
कः शोकः एकत्वमनुपश्यतः’ (ई. उ. ७) इति च मन्त्रवर्णः । अथ इदानीं त्वच्छासने
स्थितः अस्मि गतसन्देहः मुक्तसंशयः । करिष्ये वचनं तव । अहं त्वत्प्रसादात्
कृतार्थः, न मे कर्तव्यम् अस्ति इत्यभिप्रायः ॥ ७३


More information about the Advaita-l mailing list