[Advaita-l] [advaitin] The Three states/types of Reality (sattaa-traividhyam) - Taittiriya Shankara Bhashya
V Subrahmanian
v.subrahmanian at gmail.com
Thu Dec 1 01:58:24 EST 2022
In the Gaudapada karika 2nd chapter and Bhashya it is clearly stated that
the world is an imagination, kalpana, due to the maya of the Atman. Here,
the word maya is used as a synonym for Avidya:
कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया ।
स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥
स्वयं स्वमायया स्वमात्मानमात्मा देवः आत्मन्येव वक्ष्यमाणं भेदाकारं कल्पयति
रज्ज्वादाविव सर्पादीन् , स्वयमेव च तान्बुध्यते भेदान् , तद्वदेवेत्येवं
वेदान्तनिश्चयः । नान्योऽस्ति ज्ञानस्मृत्याश्रयः । न च निरास्पदे एव
ज्ञानस्मृती वैनाशिकानामिवेत्यभिप्रायः ॥
What is the 'bhedAn', variegated things that the Atma concocts to form the
world?
विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् ।
नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥
सङ्कल्पयन्केन प्रकारेण कल्पयतीत्युच्यते — विकरोति नाना करोति अपरान्
लौकिकान् भावान् पदार्थाञ्शब्दादीनन्यांश्च अन्तश्चित्ते वासनारूपेण
व्यवस्थितानव्याकृतान् नियतांश्च पृथिव्यादीननियतांश्च कल्पनाकालान्
बहिश्चित्तः सन् , तथा अन्तश्चित्तो मनोरथादिलक्षणानित्येवं कल्पयति, प्रभुः
ईश्वरः, आत्मेत्यर्थः ॥
Those 'things' are the outside world of sound, touch, etc. which were
within himself as avyAkruta/avyakta (now made vyAkrita, vyakta), the
tattvas such as prithivi and the mithya objects like manoratha, etc. (which
are prathibhasika).
Thus, perfectly in tune with his bhashya for the Taittiriya shruti 'satyam
cha anrutam cha satyam ahavat' where Shankara named the three levels of
existence, here too in the Karika bhashya we can see the same
categorisation of sattaa.
Thus, the waking world too is kalpita, like dream world, says the karika,
and the bhashya:
अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः ।
कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५ ॥
यदपि अन्तरव्यक्तत्वं भावानां मनोवासनामात्राभिव्यक्तानां स्फुटत्वं वा
बहिश्चक्षुरादीन्द्रियान्तरे विशेषः, नासौ भेदानामस्तित्वकृतः, स्वप्नेऽपि तथा
दर्शनात् । किं तर्हि ? इन्द्रियान्तरकृत एव । अतः कल्पिता एव जाग्रद्भावा अपि
स्वप्नभाववदिति सिद्धम् ॥
Here again the kalpita nature of the world is reiterated:
जीवं कल्पयते पूर्वं ततो भावान्पृथग्विधान् ।
बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ १६ ॥
Shankara uses the rope-snake analogy for this kalpana of the jagat: अनेवंलक्षण
एव शुद्ध आत्मनि रज्ज्वामिव सर्पं कल्पयते पूर्वम् । This is evidence for
Shankara holding the world to be mithya. If otherwise he should not have
used this analogy. Not only Shankara, Gaudapada too does that in the very
next verse:
अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।
सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ १७ ॥
तत्र जीवकल्पना सर्वकल्पनामूलमित्युक्तम् ; सैव जीवकल्पना किंनिमित्तेति
दृष्टान्तेन प्रतिपादयति — यथा लोके स्वेन रूपेण अनिश्चिता अनवधारिता एवमेवेति
रज्जुः मन्दान्धकारे किं सर्प उदकधारा दण्ड इति वा अनेकधा विकल्पिता भवति
पूर्वं स्वरूपानिश्चयनिमित्तम् । यदि हि पूर्वमेव रज्जुः स्वरूपेण निश्चिता
स्यात् , न सर्पादिविकल्पोऽभविष्यत् , यथा स्वहस्ताङ्गुल्यादिषु ; एष
दृष्टान्तः । तद्वद्धेतुफलादिसंसारधर्मानर्थविलक्षणतया स्वेन
विशुद्धविज्ञप्तिमात्रसत्ताद्वयरूपेणानिश्चितत्वाज्जीवप्राणाद्यनन्तभावभेदैरात्मा
विकल्पित इत्येष सर्वोपनिषदां सिद्धान्तः ॥
Shankara expatiates on the rope-snake analogy of the karika.
Thus the karya-karana ananyatvam is established as the karya is mithya
since it does not have an existence separate from the karana. While the
jagat is badhita, the Atma is never.
regards
subbu
>
More information about the Advaita-l mailing list