[Advaita-l] A Vedantic Shiva-stuti in the Padmapurana

V Subrahmanian v.subrahmanian at gmail.com
Sat Jul 9 05:50:36 EDT 2022


A Vedantic Shiva-stuti in the Padmapurana
This hymn, addressed to Shiva, contains words reminiscent of many
Upanishads:
पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३५
https://sa.wikisource.org/s/wyh
<https://sa.wikisource.org/s/wyh?fbclid=IwAR2-MYUVo0XerFAljs4IxlVp6o4ixTl0bMQTxeKmB0WGcaeLT298Fb4vTwI>
शंकुकर्ण उवाच-।
कपर्दिनं त्वां परतः परस्ताद्गोप्तारमेकं पुरुषं पुराणम् ।
व्रजामि योगेश्वरमीप्सितारमादित्यमग्निं कपिलाधिरूढम् ३५।
2.1.2 of Mundakopanishad: This says 'Brahman is higher than the primordial
Cause, the Moola-prakriti':
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्‌ परतः परः ॥ ||२||
त्वां ब्रह्मपारं हृदि संनिविष्टं हिरण्मयं योगिनमादिमं तम् ।
व्रजामि रुद्रं शरणं दिविष्ठं महामुनिं ब्रह्ममयं पवित्रम् ३६।
सहस्रपादाक्षिशिरोभियुक्तं सहस्ररूपं तमसः परस्तात् ।
तं ब्रह्मपारं प्रणमामि शंभुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ३७।
This is reminiscent of the Purusha sukta: सहस्रशीर्षा पुरुषः सहस्राक्षः
सहस्रपात्। आदित्यवर्णं तमसः परस्तात् । and this statement of the
Mahanarayana Upanishad:
ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ||
यत्र प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन ।
तं ब्रह्मपारं भगवंतमीशं प्रणम्य नित्यं शरणं प्रपद्ये ३८।
The Taittiriya Upanishad passage: यतो वा इमानि भूतानि जायन्ते । येन जातानि
जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । says
that Brahman is the Cause of creation, sustenance and dissolution of the
universe.
The meaning of 'Brahma-paaram': Brahman (Shiva) is the other shore of the
Veda. That is: the ultimate purport of the Vedas is Shiva.
अलिंगमालोकविहीनरूपं स्वयंप्रभुं चित्पतिमेकरूपम् ।
तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ३९।
यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः ।
पश्यंति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं परमस्वरूपम् ४०।
Mundakopanishat: ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९)
न यत्र नामादिविशेषकॢप्तिर्न संदृशे तिष्ठति यत्स्वरूपम् ।
तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ४१।
Brahman has no species, action, relationship and attribute. So it has no
name-form. This is said in the Kathopanishad 2.2.3: न सन्दृशे तिष्ठति
रूपमस्य न चक्षुषा पश्यति कश्चनैनम् |
यद्वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् ।
पश्यंत्यनेकं भवतः स्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि नित्यम् ४२।
Kathopanishad 2.1.12: एको वशी सर्वभुतान्तरात्मा एकं रूपं बहुधा यः करोति
... Even though Brahman is the One Unitary Whole substance without any
distinction, the Jnanis seem to know it in many ways.
विदेहं = अशरीरं , अकाययम् - The Upanishads teach Brahman to be bereft of
any body.
यतः प्रधानं पुरुषः पुराणो बिभर्ति तेजः प्रणमंति देवाः ।
नमामि तं ज्योतिषि सन्निविष्टं कालं बृहंतं भवतः स्वरूपम् ४३।
व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् ।
शिवं प्रपद्ये हरिमिंदुमौलिं पिनाकिनं त्वां शरणं व्रजामि ४४।
स्तुत्वैवं शंकुकर्णोऽपि भगवंतं कपर्दिनम् ।
पपात दंडवद्भूमौ प्रोच्चरन्प्रणवं परम् ४५।
तत्क्षणात्परमं लिंगं प्रादुर्भूतं शिवात्मकम् ।
ज्ञानमानंदमत्यंतं कोटिज्वालाग्निसन्निभम् ४६।
शंकुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः ।
निलिल्ये विमले लिंगे तदद्भुतमिवाभवत् ४७।
Shankukarna thus glorified Shiva and became one with the Upasya, Shiva.
Here Shiva is called sarvaga, amala which means the all-pervading pure,
blemishless form.
एतद्रहस्यमाख्यातं माहात्म्यं ते कपर्द्दिनः ।
न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति ४८।
य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् ।
त्यक्तपापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ४९।
पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् ।
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात्परम् ५०।
It is said above that those who recite this hymn will be endowed with
exalted results.
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये पंचत्रिंशोऽध्यायः ३५।
An English translation of this hymn can be found on this page:
https://cloudup.com/cgCUBV-mCCK
<https://cloudup.com/cgCUBV-mCCK?fbclid=IwAR3cRiNzLniIobAUNoAArHPPgM2Lkld9Ou2LNus4eqJrIQBfWqnkEVCfCfY>
page: 1474
This hymn is also found in the Kurma Purana:
कूर्मपुराणम्-पूर्वभागः/त्रयस्त्रिंशत्तमोऽध्यायः
https://sa.wikisource.org/s/41o
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2F41o%3Ffbclid%3DIwAR0RJZEHhI73PvjUlIgNAxOxhP9BdqnRJx7lGTdDFPwdNwUf6-AVV4Zt9Rs&h=AT3_DOoSSzaAklglQMqKqqRXuivOgt4pf4GvKgDVB3c4B7QTQsSqYMyBblhUvajLTs7DiM1zHmIKvq2sr_uWJ4YErl6zfyo-Pal5rqxO00GSutiF47Vdtl9ox7wM3dYzVao&__tn__=-UK-R&c[0]=AT1zCTEZ3IpPLcHYO3Hqd9hDMU1IhxKxq-tVkA9e6kKJY9bo3pvM0JziN1VukM9LU3ytKh8oOB0od_SPI3BgaPpKxypen-Zmy10aACKjrK7MtHIcbctmr5nZjDvg-uCnLGIGIl5voBy6MUH8gSQjuq-6Kw>
Om Tat Sat


More information about the Advaita-l mailing list