[Advaita-l] There are many Advaita concepts in the Vishnudharma Purana

V Subrahmanian v.subrahmanian at gmail.com
Sat Feb 3 06:04:10 EST 2024


विष्णुधर्मः
https://sa.wikisource.org/s/1wi7
<https://sa.wikisource.org/s/1wi7?fbclid=IwAR32ndtbw0cJyPRGGs_230D8Fig3GL_DcEqzgYSbHNo-fWnpUkOya2_taXk>
अद्वैतं परमार्थो हि (०९६-०१९)
द्वैतं तद्भेद उच्यते (०९६-०१९)
Advaita is Paramartha Tattva (Absolute Reality), Dvaita (Duality) is not
Paramartha.
The above is in Gaudapada's Mandukya Karika:
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । 3.18
Vishnudharma:
उभयं ब्रह्मणो रूपं (०९६-०१९)
द्वैताद्वैतविभेदतः (०९६-०१९)
तयोः स्वरूपं वदतो (०९६-०१९)
निबोध मम पार्थिव (०९६-०१९)
देवतिर्यङ्मनुष्याख्यस् (०९६-०२०)
तथैव नृप तारकः (०९६-०२०)
चतुर्विधो हि भेदो यो (०९६-०२०)
मिथ्याज्ञाननिबन्धनः (०९६-०२०)
अहम् अन्यो ऽपरश् चायम् (०९६-०२१)
अमी चात्र तथापरे (०९६-०२१)
विज्ञानम् एतत् तद् द्वैतं (०९६-०२१)
The four bheda pratyaya-s (cognition of difference) –
these are illusory:
I am different, this is different, he is different, they are different.
यद् अन्यच् छ्रूयतां परम् (०९६-०२१)
ममेत्यहमितिप्रज्ञा- (०९६-०२२)
वियुक्तम् अविकल्पवत् (०९६-०२२)
It is Advaita that has no cognitions such as that 'I am' and 'Mine.'
अविकारम् अनाख्येयम् (०९६-०२२)
अद्वैतम् अपि भूपते (०९६-०२२)
अभेदेन तवाख्यातं (०९६-०२३)
यद् एतद् ब्रह्म शाश्वतम् (०९६-०२३)
ज्ञानज्ञेयैक्यसद्भावं (०९६-०२३)
तद् एवाद्वैतसंज्ञितम् (०९६-०२३)
Advaita is that 'Jnana (knowing) and Jneya (object of knowledge)'
(Cognition and cognized) are the same.
यश्च द्वैते प्रपञ्चः स्यान् (०९६-०२४)
निवर्त्योभयचेतसः (०९६-०२४)
The cognition of the dualistic world ends with the Abhaya Buddhi,
realization of the Fearless Brahman. (In this is hidden the Upanishadic
saying 'Dvitiiyaad vai Bhayam Bhavati')
मनोवृत्तिमयं द्वैतम् (०९६-०२४)
अद्वैतं परमार्थतः (०९६-०२४)
Dvaita, difference, is a mental construct. Advaita is the transcendental
truth.
मनसो वृत्तयस् तस्माद् (०९६-०२५)
धर्माधर्मनिमित्तजाः (०९६-०२५)
निरोधव्यास् तन्निरोधाद् (०९६-०२५)
द्वैतं नैवोपपद्यते (०९६-०२५)
One method is to control mental tendencies through yoga. There is no
duality when it is so restrained.
मनोदृश्यम् इदं द्वैतं (०९६-०२६)
यत् किंचित् सचराचरम् (०९६-०२६)
मनसो ह्यमनीभावे (०९६-०२६)
द्वैताभावात् तद् आप्नुयात् (०९६-०२६)
To think that 'there exists this whole world' is indeed duality. When the
mind is rendered free of duality-thought, there is no longer duality.
This last verse is in Gaudapada's Mandukya Karika:
मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् ।
मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥ Advaita Prakarana 3.31;
Shankaracharya's bhashya:
रज्जुसर्पवद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम् । तत्र किं प्रमाणमिति,
अन्वयव्यतिरेकलक्षणमनुमानमाह । कथम् ? तेन हि मनसा विकल्प्यमानेन दृश्यं
मनोदृश्यम् इदं द्वैतं सर्वं मन इति प्रतिज्ञा, तद्भावे भावात् तदभावे
चाभावात् । मनसो हि अमनीभावे निरुद्धे विवेकदर्शनाभ्यासवैराग्याभ्यां
रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इति अभावात्सिद्धं
द्वैतस्यासत्त्वमित्यर्थः ॥
Thus many advaita concepts are in this Vishnudharma text.
Om


More information about the Advaita-l mailing list