[Advaita-l] SB 6.4.29,30 Brahma Nirgunam with Sridhari commentary

V Subrahmanian v.subrahmanian at gmail.com
Thu Jun 19 13:34:57 EDT 2025


ŚB 6.4.29
यद्यन्निरुक्तं वचसा निरूपितं
धियाक्षभिर्वा मनसोत यस्य ।
मा भूत्स्वरूपं गुणरूपं हि तत्तत्
स वै गुणापायविसर्गलक्षण: ॥ २९ ॥

Anything expressed by material vibrations, anything ascertained by material
intelligence and anything experienced by the material senses or concocted
within the material mind is but an effect of the modes of material nature
and therefore has nothing to do with the real nature of the Supreme
Personality of Godhead. The Supreme Lord is beyond the creation of this
material world, for He is the source of the material qualities and
creation. As the cause of all causes, He exists before the creation and
after the creation. I wish to offer my respectful obeisances unto Him.

ननु यदि केवलया स्वसंस्थया प्रतीयते तर्हि सर्वनामत्वं विश्वरूपत्वं
चानुपपन्नं वागाद्यगोचरत्वादित्याशंक्य सर्वैर्नामभिर्वाच्यं प्रत्यक्षादि
दृश्यं च तस्य स्वरूपं वस्तुतो मा भूत्तथापि मायया घटत इति
लोकत्रयेणोपपादयन्नमस्करोति । यद्यदिति । यद्यद्वचसा निरुक्तमभिहितं धिया
निरूपितं व्यवसितमक्षभिर्वेद्रियैर्निरूपितं गृहीतमुतापि मनसाऽपि निरूपितं
संकल्पितं यस्य स्वप्रकाशत्वं तस्य तत्स्वरूपं मा भूत् । स्वरूपत्वाभावे हेतुः
। हि *यस्मात्तत्तद्गुणानामेव रूपम् *। पाठांतरे गुणैर्वर्धितम् । *स तु
गुणव्यतिरिक्तः ।* यतो गुणानामपायविसर्गाभ्यां प्रलयोत्पत्तिभ्यां लक्ष्यत इति
तथा । चेतनाधिष्ठानं विना तयोरसंभवात् । यद्वा यस्य स्वरूपं मा भून्न भवति
तस्मै नम इति तृतीयेनान्वयः ।। २९ ।।

ŚB 6.4.30
यस्मिन्यतो येन च यस्य यस्मै
यद्यो यथा कुरुते कार्यते च ।
परावरेषां परमं प्राक् प्रसिद्धं
तद् ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥

The Supreme Brahman, Kṛṣṇa, is the ultimate resting place and source of
everything. Everything is done by Him, everything belongs to Him, and
everything is offered to Him. He is the ultimate objective, and whether
acting or causing others to act, He is the ultimate doer. There are many
causes, high and low, but since He is the cause of all causes, He is well
known as the Supreme Brahman who existed before all activities. He is one
without a second and has no other cause. I therefore offer my respects unto
Him.

 तदेवं वस्तुतो गुणस्वरूपत्वाभावमंगीकृत्यानिरुक्तात्मशक्तिरित्यनेन द्योतितं
मायया सर्ववाच्यत्वेन विश्वरूपत्वमाह । यस्मिन्नधिकरणे । यतोऽपादानात् । येन
करणेन । यस्य संबंधि । यस्मै संप्रदानाय । यदीप्सिततमम् । यः कर्ता कुरुते
स्वतंत्रः । कार्यते चान्येन प्रयोज्यकर्त्रा । तद्ब्रह्मेति प्रत्येकं संबंधः
। अत्र च सप्तभिर्यच्छच्दैः सप्तविभक्त्यर्था दर्शिताः । यथेति च
क्रियाकारकसंबंधप्रकारवाचिनामव्ययानामर्थाः । कुरुते कार्यते चेति
स्वार्थपरार्थक्रियान्वयश्च सर्वेषां दर्शितः । च शब्देन
भावकर्मादिविहितप्रत्ययार्थाः संगृहीताः । तद्ब्रह्मैवेति । कुतस्तत्राह ।
तद्धेतुस्तेषां कारणम् । तत्कुतः । सर्वेभ्यः प्राक्प्रसिद्धम् । ननु
ब्रह्मादयस्तद्धेतवः श्रूयंतेऽवरे च दृश्यते तत्कथं ब्रह्मैव तद्धेतुस्तत्राह
। *परेषामवरेषां च हेतूनां परमं कारणम् ।* *ननु सर्वकारणत्वे तस्य किं नाम
सहकारि भवेत्तदानीमन्यस्याभावात् । सत्यम् । निरपेक्षमेव तत्कारणमित्याह
।* *अनन्यद्विजातीयशून्यम्
एकं सजातीयशून्यं च तस्मै नम इत्युत्तरेणान्वयः || 30 ||*

*The verse/s, along with the Sridhari commentary reminds us of  *
the Mahabharata verse where Narayana himself reveals to Narada his
Vishwarupa and calls it a display of his māyā:   Bhagavan adds: You should
not know Me to be someone attributed by such a creation.  In other words
the Lord is clarifying - Do not know Me, Brahman, as something endowed with
creation.

तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते —

‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’ (म. भा. १२ । ३३९  । ४५)
‘सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि’ (म. भा. १२ । ३३९ । ४६) इति ॥ १७
॥

In other words, it is Ajāti, no-creation. Creation is an adhyāropa to take
the aspirant to the Brahman that is not related to anything.

Om Tat Sat


More information about the Advaita-l mailing list