[Advaita-l] Taittiriya Brahmana question

Anand Hudli anandhudli at hotmail.com
Fri Jul 1 23:08:16 CDT 2011


द्वैतिनां मतेऽप्यध्यस्तालीकयोः पार्थक्यं (भेदः) अभ्युपगम्यते,
"त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता सत्तोच्यते *अध्यस्ततुच्छे तु तं प्रति
प्रतियोगिनी*" इति व्यासरायवचनेऽध्यस्ततुच्छे पृथगेवोक्तत्वात्। अध्यस्तं
शुक्तिरजतादिभ्रमे प्रतीयमानवस्तु। तुच्छम् अत्यन्तासच्छशशृङ्गाद्यलीकवस्तु।
यद्यपि तेषां मते शुक्तिरजताद्यध्यस्तवस्त्वत्यन्तासदित्युक्तं, तथापि
कस्मिन्श्चिदधिष्ठाने कस्मिन्श्चित्कालावधौ सत्त्वेन प्रतीयमानत्वमध्यस्तत्वं,
कस्मिन्श्चिदप्यधिष्ठाने कदाचिदपि सत्त्वेन प्रतीत्यनर्हत्वमलीकत्वम् इति तैः
स्वीकरणीयमेवेत्यध्यस्तवस्तुनोऽनिर्वचनीयत्वोपपत्तिः।

आनन्दः

http://www.advaita-vedanta.org/archives/advaita-l/2010-April/024366.html
http://www.advaita-vedanta.org/archives/advaita-l/2010-April/024383.html


More information about the Advaita-l mailing list