[Advaita-l] Taittiriya Brahmana question

Venkatesh Murthy vmurthy36 at gmail.com
Sat Jun 25 23:25:41 CDT 2011


नमस्ते

न केवलं भारतीयाः प्रत्युत पाश्चात्या अपि विद्वांसः संस्कृतभाषायाः
महत्वं स्वीकुर्वन्ति । प्राचीनकाले सर्वे जनाः संस्कृतभाषामेव वदन्ति
स्म । अतः समग्रमपि प्राचीनसाहित्यं संस्कृतभाषायामेव उपलभ्यते ।
वेदानामपि भाषा संस्कृतमेव । शंकरभगवत्पादाचार्याः अपि
प्रस्थानत्रयीभाष्याणि अनेकप्रकरणग्रन्थान् स्तोत्राणि च देवभाषायामेव
लिखितवन्तः ।

ईदृशीं भाषां त्यक्त्वा म्लेच्छभाषायां आङ्ग्लभाषायां अद्वैतमतवादविवादः
कथं उचितः भवति ? अतः अत्र अद्वैतमतस्य चर्चा देवभाषायामेव करणीया न तु
म्लेच्छभाषायां इति मम आशा ।

2011/6/26 D.V.N.Sarma డి.వి.ఎన్.శర్మ <dvnsarma at gmail.com> :
> संवादः आङ्ग्लभाषायामेवोचित इति मे मतिः
>
> अभिवादाः
> शर्मा.
>
> 2011/6/25 श्रीमल्ललितालालितः <lalitaalaalitah at gmail.com>
>
>> *श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
>> lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*
>>
>>
>>
>> 2011/6/25 Venkatesh Murthy <vmurthy36 at gmail.com>
>>
>> > नमस्ते
>> >
>> > 2011/6/24 श्रीमल्ललितालालितः <lalitaalaalitah at gmail.com> लिखितवान्:
>> > > *श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
>> >
>> >
>> > >
>> > >> किंस्विद् वनम् इत्यादिप्रश्नप्रतिवचनभृत ब्रह्मवनम् इति
>> > >> श्रुतिप्रतिपन्नोपादानत्वस्य
>> > >>
>> > >
>> > > सिद्धवत्कृत्वा कथनं श्रद्धालोरेव शोभते । विदुषां पुरत एतदुदाहरणं
>> > बालक्रीडैव
>> > > स्यात् ।
>> >
>> > अहं विद्वान् नास्मि एतदहं जानामि किंतु अविद्वानेव अन्यस्य लिखितस्य
>> > पूर्णतयावधारणं विना दूषयति ।
>>
>>
>> परमतपरीक्षणं कथमविद्वत्तां सूचयेत् । आक्षेपकोऽविद्वानिति वचनं खिन्नताञ्च
>> द्योतयति ।
>>
>>
>> > शिवसेनानीमहोदयेन ब्रह्मोपादानत्वविषये
>> > समञ्जसं लिखितं तत् द्रष्टव्यम् ।
>> >
>>
>> तदद्वैतमतपोषकमेव ।
>>
>> भवतु नाम । मया व्रणो न ते स्यादित्यसंवाद एवोचितः ।


अभिवादाः

-वेङ्कटेशः


More information about the Advaita-l mailing list