[Advaita-l] शांकरभाष्ये पाणिनिमण्डनम्

V Subrahmanian v.subrahmanian at gmail.com
Fri Oct 21 21:19:18 CDT 2011


यैरिमे गुरुभिः पूर्वं पद-वाक्य-प्रमाणतः ।
व्याख्याताः सर्ववेदान्ताः तान्नित्यं प्रणतोस्म्यहम् ॥
(तैत्तिरीयोपनिषद्भाष्यमङ्गलश्लोकः)

’शास्त्रयोनित्वात्’ इति बादरायणतृतीय(ब्रह्म)सूत्रस्य भाष्यरचनावसरे
वेदाख्यशास्त्रमूलस्य ब्रह्मणः सर्वज्ञत्वख्यापने श्रीशंकरचार्याः
व्याकरणशास्त्रप्रणेतारं पाणिनिमुदाहरणत्वेन सस्मरुः -

// महत ऋग्वेदादेः शास्त्रस्यानेकविद्यास्थानोपबृंहितस्य
प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म।

नहीदृशस्य शास्त्रस्यर्ग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः
संभवोऽस्ति  ।

*यद्यद्विस्तरार्थम् शास्त्रं यस्मात्पुरुषविशेषात्संभवति, **यथा व्याकरणादि
पाणिन्यादेर्ज्ञेयैकदेशार्थमपि स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके** * ।

किमु वक्तव्यमनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमदिप्रविभागहेतोः
ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्याप्रयत्नेनैव लीलान्ययेन
पुरुषनिःश्वासवद्यस्मान्महतो भूताद्योनेः संभवः ’अस्य महतो भूतस्य
निःश्वसितमेतद्यदृग्वेदः..’(बृह. २.४.१०) इत्यादिश्रुतेःतस्य महतो भूतस्य
निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति ।//


दृष्ट्वेदं वाक्यं ख्यातव्याकरणविद्वांस एके अतीव हर्षपूरिता आनन्दाश्रुनयना
अभवन् ।


सुब्रह्मण्यशर्मा

बेंगलूरु


More information about the Advaita-l mailing list