[Advaita-l] Sleep, tamas and brahman

Kalyan kalyan_kg at yahoo.com
Thu May 3 13:30:27 EDT 2018



This is from B U bhAshya -

अत्र च एतत् प्रकृतम् — ***अविद्याकामकर्मविनिर्मुक्तमेव तद्रूपम् ***, यत् ***सुषुप्ते*** आत्मनो गृह्यते प्रत्यक्षत इति ; 4.3.22


तत्र च सर्वात्मभावः स्वभावोऽस्य, एवम् ***अविद्याकामकर्मादिसर्वसंसारधर्मसम्बन्धातीतं रूपमस्य, साक्षात् सुषुप्ते गृह्यते*** — इत्येतद्विज्ञापितम्  4.3.34


तत्र चैतन्यज्योतिःस्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीः, तत्र अयं हेतुः मयोक्तः एकत्वम् , यथा स्त्रीपुंसयोः सम्परिष्वक्तयोः । तत्र अर्थात् नानात्वं विशेषविज्ञानहेतुरित्युक्तं भवति ; नानात्वे च कारणम् — आत्मनो वस्त्वन्तरस्य प्रत्युपस्थापिका अविद्येत्युक्तम् । ***तत्र च अविद्याया यदा प्रविविक्तो भवति, तदा सर्वेण एकत्वमेव अस्य भवति ***;  4.3.21


यत आत्मकामम् — आत्मैव कामाः यस्मिन् रूपे, अन्यत्र प्रविभक्ता इव अन्यत्वेन काम्यमानाः यथा जाग्रत्स्वप्नयोः, तस्य आत्मैव अन्यत्वप्रत्युपस्थापकहेतोरविद्याया ***अभावात्*** — आत्मकामम् ; अत एव अकाममेतद्रूपम् काम्यविषयाभावात् ; शोकान्तरम् शोकच्छिद्रं शोकशून्यमित्येतत् , शोकमध्यमिति वा, सर्वथापि अशोकमेतद्रूपम् शोकवर्जितमित्यर्थः ॥4.3.21





More information about the Advaita-l mailing list