[Advaita-l] Brahman is 'avaachya' by any name: Vishnu Puranam

V Subrahmanian v.subrahmanian at gmail.com
Wed Apr 24 13:58:28 EDT 2019


In the Vishnu Puranam occurs the concept of 'no name being possible for
Brahman':

न यत्र नाथ विद्यन्ते *नामजात्यादिकल्पनाः* ।
तदू ब्रह्म परमं नित्यमविकारि भवानजः ।। ५-१८-५३ ।।

O Lord, where name, genus, etc. imaginations are not there, that Supreme
Brahman is immutable, unborn, are You.

This very idea has been stated by Shankara in the BGB 13.12:

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥

सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमाणश्च श्रोतृभिः,
जातिक्रियागुणसम्बन्धद्वारेण सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्याययति ; न
अन्यथा, अदृष्टत्वात् । तत् यथा — ‘गौः’ ‘अश्वः’ इति वा जातितः, ‘पचति’ ‘पठति’
इति वा क्रियातः, ‘शुक्लः’ ‘कृष्णः’ इति वा गुणतः, ‘धनी’ ‘गोमान्’ इति वा
सम्बन्धतः । न तु ब्रह्म जातिमत् , अतः न सदादिशब्दवाच्यम् । नापि गुणवत् ,
येन गुणशब्देन उच्येत, निर्गुणत्वात् । नापि क्रियाशब्दवाच्यं
निष्क्रियत्वात् ‘निष्कलं
निष्क्रियं शान्तम्’ (श्वे. उ. ६ । १९)
<http://advaitasharada.sringeri.net/display/bhashya/svt?page=6&id=SV_C06_V19&hl=%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%95%E0%A4%B2%E0%A4%82%20%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%82%20%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D>
इति
श्रुतेः । न च सम्बन्धी, एकत्वात् । अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न
केनचित् शब्देन उच्यते इति युक्तम् ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १)
<http://advaitasharada.sringeri.net/display/bhashya/Taitiriya?page=2&id=T_C02_S09_V01&hl=%E0%A4%AF%E0%A4%A4%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A5%8B%20%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%87>
इत्यादिश्रुतिभिश्च
॥ १२ ॥
One may consult the Swami Gambhirananda or any other translation.

For the following verse there, Sridhara Swamin says:

न कल्पनामृतेऽर्थस्य सर्व्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्तबिष्णुसंज्ञाभिरीडयसे ।। ५-१८-५४ ।।

Without imagination, no sense can be grasped. Therefore, You are praised by
names such as Krishna, Achyuta, Anantha, Vishnu....

Commentary: मायया अनन्तनामत्वमाह -    The Lord gets infinite names by
maayaa.

Om Tat Sat


More information about the Advaita-l mailing list