[Advaita-l] Vedantic Brahma svarupa lakshanam in Drona Parva of Mahabharata

V Subrahmanian v.subrahmanian at gmail.com
Tue Dec 10 22:17:52 EST 2019


In the Drona Parva occurs a stuti of Rudra where just a short epithet draws
our special attention as Vedantins:
  स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् | सर्वासां देवतानां च
धारयत्यवपुर्वपुः ||६८||
He is the Creator, Protector, the Universal Soul, the Universal Omnipotent
All Doer is the support of all divinities.  He is the 'bodiless-body.'

This last epithet is reflective of the Upanishadic svarupa lakshana of
Brahman.  For instance in the Kathopanishat 1.2.22 we have:

अशरीरं शरीरेषु अनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥
Brahman, being formless, like ether, dwells in all bodies that
exist. The bodies themselves are ephemeral but the indwelling
spirit, Brahman, is eternal. That spirit is all-pervading knowing
which one ends his embodied state once for all.

तद्विज्ञानाच्च शोकात्यय इत्यपि दर्शयति — अशरीरः स्वेन रूपेणाकाशकल्प आत्मा
तम् अशरीरं शरीरेषु देवपितृमनुष्यादिशरीरेषु अनवस्थेषु
अवस्थितिरहितेष्वनित्येषु अवस्थितं नित्यम् अविकृतमित्येतत् । महान्तम् ।
महत्त्वस्यापेक्षिकत्वशङ्कायामाह — विभुं व्यापिनम् आत्मानम् ; आत्मग्रहणं
स्वतोऽनन्यत्वप्रदर्शनार्थम् । आत्मशब्दः प्रत्यगात्मविषय एव मुख्यः
तमीदृशामात्मानं मत्वा अयमहमिति, धीरः धीमान् न शोचति । न
ह्येवंविधस्वात्मविदः शोकोपपत्तिः ॥
The Bh.Gita 18.20 says:
सर्वभूतेषु येनैकं
भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु
तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥
That knowledge which grasps the One entity that dwells in all beings,
undivided in the divided, is Saattvic knowledge.
Thus we have this Upanishadic idea of Brahman being without a default body
but yet appearing to be having one (for the sake of blessing the aspirant,
as Shankara has said in the Brahma sutra bhashya) is depicted in this verse
of the Mahabharata: avapurH-vapuH.
This idea is worthy of deep contemplation since that is our true nature.


   तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः | देवानां त्रिदशश्रेष्ठो
   दक्षयज्ञविनाशनः ||६४|| स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् | स
   चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ||६५|| स भवः स च पर्जन्यो
   महादेवः स चानघः | स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ||६६|| स कालः
   सोऽन्तको मृत्युः स यमो रात्र्यहानि च | मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च
   सः ||६७|| स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् | सर्वासां देवतानां च
   धारयत्यवपुर्वपुः ||६८|| सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः | शतधा
   सहस्रधा चैव तथा शतसहस्रधा ||६९|| ईदृशः स महादेवो भूयश्च भगवानजः | न हि
   सर्वे मया शक्या वक्तुं भगवतो गुणाः ||७०|| सर्वैर्ग्रहैर्गृहीतान्वै
   सर्वपापसमन्वितान् | स मोचयति सुप्रीतः शरण्यः शरणागतान् ||७१||
   आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् | स ददाति मनुष्येभ्यः स
   चैवाक्षिपते पुनः ||७२|| सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते | स चैव
   व्याहृते लोके मनुष्याणां शुभाशुभे ||७३|| ऐश्वर्याच्चैव कामानामीश्वरः
   पुनरुच्यते | महेश्वरश्च भूतानां महतामीश्वरश्च सः ||७४|| बहुभिर्बहुधा
   रूपैर्विश्वं व्याप्नोति वै जगत् | अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत
   ||७५||

Om Tat sat


More information about the Advaita-l mailing list