[Advaita-l] No Parinama in Brahman says Shankara Bhagavatpada
V Subrahmanian
v.subrahmanian at gmail.com
Tue Jun 25 05:33:49 EDT 2019
On Tue, Jun 25, 2019 at 2:32 PM H S Chandramouli via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:
> Namaste,
>
> Very happy to see the correction issued , suo moto, in respect of one
> part. Hope and wish the same will follow, sooner than later, in respect of
> the following part as well.
>
> << Shankara has elsewhere denied any parinama even in
> the case of clay, etc. The Chandogya and Manukya karika bhashya-s are the
> references >>.
Here are references where the mrd-ghaTa case is handled by Shankara:
Mandukya karikaa 4.22:
स्वतो वा परतो वापि न किञ्चिद्वस्तु जायते । सदसत्सदसद्वापि न किञ्चिद्वस्तु
जायते ॥ २२ ॥
भाष्यम्
<https://advaitasharada.sringeri.net/display/bhashya/Mandukya?page=4&id=MK_C04_K11_B01&hlBhashya=%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%87%E0%A4%A3#bhashya-MK_C04_K22>
इतश्च न जायते किञ्चित् यज्जायमानं वस्तु स्वतः परतः उभयतो वा सत् असत्
सदसद्वा न जायते, न तस्य केनचिदपि प्रकारेण जन्म सम्भवति । न
तावत्स्वयमेवापरिनिष्पन्नात्स्वतः स्वरूपात्स्वयमेव जायते, यथा घटस्तस्मादेव
घटात् । नापि परतः अन्यस्मादन्यः, यथा घटात्पटः । तथा नोभयतः, विरोधात् , यथा
घटपटाभ्यां घटः पटो वा न जायते । ननु मृदो घटो जायते पितुश्च पुत्रः ; सत्यम्
, *अस्ति जायत इति प्रत्ययः शब्दश्च मूढानाम्* । तावेव तु शब्दप्रत्ययौ
विवेकिभिः परीक्ष्येते — किं सत्यमेव तौ, उत मृषा इति ; यावता परीक्ष्यमाणे
शब्दप्रत्ययविषयं वस्तु घटपुत्रादिलक्षणं *शब्दमात्रमेव तत्* , ‘वाचारम्भणम्’
(छा. उ. ६ । ४ । ४)
<https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S04_V04&hl=%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A4%A3%E0%A4%AE%E0%A5%8D>
इति
श्रुतेः । सच्चेत् न जायते, सत्त्वात् , मृत्पित्रादिवत् । यद्यसत् , तथापि न
जायते, असत्त्वादेव, शशविषाणादिवत् । अथ सदसत् , तथापि न जायते
विरुद्धस्यैकस्यासम्भवात् । अतो न किञ्चिद्वस्तु जायत इति सिद्धम् । येषां
पुनर्जनिरेव जायत इति क्रियाकारकफलैकत्वमभ्युपगम्यते क्षणिकत्वं च वस्तुनः, ते
दूरत एव न्यायापेताः । इदमित्थमित्यवधारणक्षणान्तरानवस्थानात् , अननुभूतस्य
स्मृत्यनुपपत्तेश्च ॥
Do you think the above Bhashya part where the very utpatti of ghata from
mrt is denied, as relevant to our discussion? What is the status of the
'jaata' and 'kaaryam' buddhi/shabda? If no real kaaryam is born, what is
the status of the 'ghata' as against the mrt? Can we not say: मृदेव
घटाद्याकारेण विवर्तते यतः घटाद्याकारसत्यत्वबुद्धिं जनयति अविचारवताम् | When
in the above bhashya even parinama is denied implicitly, what else can that
case be?
I am inclined to cite the Chandogya bhashya 6.2.3 passage:
यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते, यथा वा पिण्डघटादि
मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके । रज्जुविवेकदर्शिनां तु
सर्पाभिधानबुद्धी निवर्तेते, यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी, तद्वत्
सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते ..
Elsewhere, in the Bh.Gita bhashya, Bhagavatpada has even 'equated' the
'silver' with the shell:
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
भाष्यम्
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=4&id=BG_C04_V24_B04&hlBhashya=%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AA%E0%A4%A3%E0%A4%AE%E0%A5%8D#bhashya-BG_C04_V24>
ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति तत् ब्रह्मैव इति
पश्यति, तस्य *आत्मव्यतिरेकेण अभावं पश्यति*, यथा शुक्तिकायां रजताभावं पश्यति
; तदुच्यते *ब्रह्मैव अर्पणमिति*, *यथा यद्रजतं तत् शुक्तिकैवेति ।*
This applies to kaarya-kaaraNa ananyatvam too, going by the passages shown
above. यत् कार्यमित्यभिधीयते, प्रतिपद्यते च, तत्कारणात् न भिद्यते | कारणमेव
कार्यबुद्ध्या प्रतिपद्यते उच्यते च | यथा शुक्तिकैव रज्जुशब्दबुद्धिभाक् भवति
अविवेकदशायाम् | विवेके सति अध्यस्तस्य अधिष्ठानाव्यतिरेकता सर्वैरभ्युपगम्यते
| [These are my lines.]
> Regards
>
subbu
More information about the Advaita-l mailing list