[Advaita-l] Where do vasana-s abide?

V Subrahmanian v.subrahmanian at gmail.com
Tue Oct 1 14:07:10 EDT 2019


Here are references from the bhashya-s of Shankara where the abode of
vasanas has been mentioned/indicated/implied to be the linga (sukshma
shariram), manas, buddhi:

अपि च वासना नाम संस्कारविशेषाः ;   BSB 2.2.30

ज्ञानकर्मणोर्हि फलं भोक्त्रर्थत्वादान्तरतमं स्यात् ; आन्तरतमश्च आनन्दमय
आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रियाद्यर्थत्वाच्च । प्रियादिप्रयुक्ते हि
विद्याकर्मणी ; तस्मात्प्रियादीनां फलरूपाणामात्मसंनिकर्षात्
विज्ञानमयादस्याभ्यन्तरत्वमुपपद्यते ; प्रियादिवासनानिर्वर्तितो ह्यात्मा
आनन्दमयो विज्ञानमयाश्रितः स्वप्ने उपलभ्यते ।  Taittiriya Brahmanandavalli
5th anuvaka bhashya.


Br.Up.bha. 1.4.17:

स्वाभाविक्या स्वात्मनि कर्त्रादिकारकक्रियाफलात्मकताध्यारोपलक्षणया अविद्या
वासनया वासितः सः अकामयत कामितवान् ।

Br.up. bha. 3.9.20.
चक्षुषा सह प्राची दिक्सर्वा रूपभूता ; तानि च कस्मिन्नु रूपाणि
प्रतिष्ठितानीति ; हृदय इति होवाच ; हृदयारब्धानि रूपाणि ; रूपाकारेण हि हृदयं
परिणतम् ; यस्मात् हृदयेन हि रूपाणि सर्वो लोको जानाति ; हृदयमिति बुद्धिमनसी
एकीकृत्य निर्देशः ; तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि ; हृदयेन हि
स्मरणं भवति रूपाणां वासनात्मनाम् ; तस्मात् हृदये रूपाणि
प्रतिष्ठितानीत्यर्थः । एवमेवैतद्याज्ञवल्क्य ॥  Br.up. bha. 3.9.20.

Br.up.bha.4.3.20:

तासु एवंविधासु नाडीषु सूक्ष्मासु वालाग्रसहस्रभेदपरिमाणासु
शुक्लादिरसपूर्णासु सकलदेहव्यापिनीषु सप्तदशकं लिङ्गं वर्तते ; तदाश्रिताः
सर्वा वासना उच्चावचसंसारधर्मानुभवजनिताः ; तत् लिङ्गं वासनाश्रयं
सूक्ष्मत्वात् स्वच्छं

Anandagiri says what is the linga (sukshma) shariram:   पञ्चभूतानि
दशेन्द्रियाणि प्राणोऽन्तःकरणमिति सप्तदशकम् ।   This 17-part sukshma sharira
is the abode of vasanas, as per Shankara's commentary above. Anandagiri
says, implies: in the waking the vasanas will be in the linga sharira. In
dream the linga shrira itself will be in the naaDi-s. So, the conclusion
is: vasanas, in the linga shariram, appear as objects in dream.

In this Br.up.bh.4.3.22 Shankara says, refuting a purvapakshin:  ये तु
वादिनः — हृदि श्रिताः कामा वासनाश्च हृदयसम्बन्धिनमात्मानमुपसृप्य
उपश्लिष्यन्ति, हृदयवियोगेऽपि च अत्मनि अवतिष्ठन्ते पुटतैलस्थ इव
पुष्पादिगन्धः — इत्याचक्षते ; तेषाम् ‘कामः सङ्कल्पः’ (बृ. उ. १ । ५ । ३)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S05_V03&hl=%E0%A4%95%E0%A4%BE%E0%A4%AE%E0%A4%83%20%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%83>
 ‘हृदये ह्येव रूपाणि’ (बृ. उ. ३ । ९ । २०)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V20&hl=%E0%A4%B9%E0%A5%83%E0%A4%A6%E0%A4%AF%E0%A5%87%20%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B5%20%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF>
‘हृदयस्य
शोकाः’ इत्यादीनां वचनानामानर्थक्यमेव । हृदयकरणोत्पाद्यत्वादिति चेत् , न, ‘हृदि
श्रिताः’ (बृ. उ. ४ । ४ । ७)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V07&hl=%E0%A4%B9%E0%A5%83%E0%A4%A6%E0%A4%BF%20%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%83>
इति
विशेषणात् ; न हि हृदयस्य करणमात्रत्वे ‘हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V07&hl=%E0%A4%B9%E0%A5%83%E0%A4%A6%E0%A4%BF%20%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%83>
इति
वचनं समञ्जसम् , ‘हृदये ह्येव रूपाणि प्रतिष्ठितानि’ (बृ. उ. ३ । ९ । २०)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V20&hl=%E0%A4%B9%E0%A5%83%E0%A4%A6%E0%A4%AF%E0%A5%87%20%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B5%20%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BF>
इति
च ।     The pp says: desires and vasana-s inhere in the heart (linga
shariram/buddhi manas) and since the Atman is connected to the buddhi, the
desires, and vasanas should be held to be in/of the Atman. This position is
refuted by the siddhantin by showing several shruti-s. The siddhantin does
not refute the position that the desires/vasanas reside in the hrdaya.

In the famous dva suparna mantra of the mundaka 3.1.1 Shankara defines the
jiva as: तं परिष्वक्तवन्तौ सुपर्णाविव
अविद्याकामकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौ
।  Here too he says that the linga upadhi (sukshma shariram) is the abode
of avidya, kama karma vasana.

In this Chandogya bhashya 8.12.1 Shankara says: किं तर्हि, पटचित्रवज्जाग्रद्
वासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टुः स्वयञ्ज्योतिष्ट्वबाधः स्यात् ।
dhii, buddhi, is the aashraya for the jaagrat vaasanaa.

In this Prashnopanishat 4.5 says Shankara:  एवं
मनस्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासना अविद्यया
अन्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुर्वासनाभ्यो
दृश्यरूपाभ्योऽन्यत्वेन  In the manas, which is endowed with vasanas: manasi
vaasanaavati.

In this Mandukya 1.4 on dream: Shankara says: इन्द्रियापेक्षया
अन्तःस्थत्वान्मनसः तद्वासनारूपा च स्वप्ने प्रज्ञा यस्येति अन्तःप्रज्ञः,
विषयशून्यायां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवतीति तैजसः ।
विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्यत्वम् ; इह पुनः केवला वासनामात्रा
प्रज्ञा भोज्येति प्रविविक्तो भोग इति । समानमन्यत् । द्वितीयः………   Here we
get the impression that vasanas reside in the manas.

In this Mandukya Karika 3.34 bhashya:

अन्तर्लीनानेकानर्थप्रवृत्तिबीजवासनावतो मनसः
आत्मसत्यानुबोधहुताशविप्लुष्टाविद्याद्यनर्थप्रवृत्तिबीजस्य निरुद्धस्य अन्य
एव प्रशान्तसर्वक्लेशरजसः स्वतन्त्रः प्रचारः ।…

Next verse bhashya:  लीयते सुषुप्तौ हि
यस्मात्सर्वाभिरविद्यादिप्रत्ययबीजवासनाभिः
सह तमोरूपम् अविशेषरूपं बीजभावमापद्यते तद्विवेकविज्ञानपूर्वकं निगृहीतं
निरुद्धं सत् न………

regards
subbu


More information about the Advaita-l mailing list